SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ 184 सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे जडद्रव्य भावप्रकाशः . त्रिवृत्करणं त्रेधा विभागेन। स च प्रथमत एव त्रिधा करणेन उत प्रथमतो द्विधा विभज्य तत एकांशस्य विभागेन ? आयेऽपि समपरिमाणतया विषमपरिमाणतया वा ? तत्र समपरिमाणतया प्रथमतस्त्रिधा विभागे 'व्यात्मकत्वात्तु भूयस्त्वात् ' इति सूत्रविरोधः ; त्रयाणां समतया एकभागापेक्षयान्यभागस्य भूयस्त्वविरहात् । एवं 'वैशेष्यात्तु तद्वादस्तद्वादः' इति सूत्रविरोधोऽपि ; विषमपरिमाणतया तदङ्गीकारे विषमपरिमाणं इयदेवेति निर्धारणं युक्तया न संभवति । श्रुतिस्त्वत्रोदासीना । त्रेधा करवाणीत्यनुक्ता त्रिवृतं करवाणीत्युक्तया प्रथमत एव त्रेधा विभागो न श्रुत्यभिप्रेत इति प्रतीयते । अत एव ईक्षत्यधिकरणकल्पतरौ प्रथमतो द्वेधा विभागानन्तरं पुनर्विभाग एवादृतः । भवताप्येतत्पक्षागीकारे तत्र प्रथमतस्समतया द्वेधा विभागे किं मूलम् ? स्मृतिरिति चेत् तर्हि संप्रदायरीत्यैव पञ्चीकरणमङ्गीकृतं स्यात् । ईक्षत्यधिकरणकल्पतरौसंप्रदायाध्वना पञ्चीकरणं यद्यपि स्थितम्-इत्यारभ्य तेजोऽबन्नानामेव त्रिवृत्करणस्य श्रुतौ विवक्षितत्वं युक्तत्वं चोपपाद्य पञ्चीकरणप्रकारः स्मृत्युक्त एवोक्तः । अतः संप्रदायाध्वना पञ्चीकरणं स्मार्तमेवेति । स्मृतौ प्रथमतो भूतस्य द्विधा विभागानन्तरं एकार्यस्य चतुर्धा विभाग उक्तः । स च नैककालावच्छेदेन किंतु प्रथमतो द्विधा विभागानुरूप्येण श्रुत्यनुसारेण च पुनरपि द्विधावभगिः । अनन्तरमंशयोर्द्वयोरपि द्विधा विभाग इति क्रमेणेति त्रिवृत्करणं वियदधिकरणसिद्धान्तानुसारेण स्मार्तपञ्चीकरणे पर्यवस्यति । 'व्यात्मकत्वात्तु भूयस्त्वादिति ' सूत्रं च पञ्चात्मकत्वोपलक्षणम् । यथोक्तं कल्पतरुपरिमले—'त्र्यात्मकत्वात्तु भूयस्त्वात् ' इति सूत्रे शरीरकारणानां त्र्यात्मकत्वमुक्तं तत् पञ्चात्मकत्वस्योपलक्षणमिति । त्र्यात्मकत्वं च शरीरकारणानामपामेव विवक्षितं नान्यस्य । तदधिकरणे ‘प्रथमे श्रवणा
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy