SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ सरः त्रिगुणपरीक्षायां पञ्चीकरणस्थापनम् 181 तत्वमुक्ताकलापः मैका निरोहुम् ।। १७ ॥ सर्वार्थसिद्धिः त्यर्थः । अत्र'*अनन्यपराणां *भूयसां च बलीयस्त्वं ; आनन्ददायिनी अनन्यपराणामिति-यद्यपि श्रुतिस्मृत्योर्विरोधे भूयसीनामपि स्मृतीनां बाध एव; तथाप्यबाधेनोपपत्तौ बाधस्यान्याय्यत्वादन्यतरस्यान्यतरानुसारे वाच्ये अविरोधेन वक्तुं च शक्येऽनन्यपरस्मृत्यनुसारो युक्तः ; तथा हि श्रुत्यर्थस्य वाच्यस्य त्रिवृत्करणस्य सहस्र शतन्यायेन संभवाद्वयवच्छेदस्तु संख्याश्रवणकल्प्यः । स च श्रुतिमूलोऽपि भूयसां स्यादिति न्यायेन बाधित भावप्रकाशः (३-१-२) त्रिवृत्करण एव व्यासतात्पर्यमिति व्यक्तम् ॥ ___* अनन्यपराणामित्यनेन अनन्यथासिद्धेनान्यथासिद्धं बाध्यमित्यनुगत एव बाध्यबाधकमाव इति सूचितं । अन्यपरत्वे प्रयोजकं दर्शयति-*भूयसां चेति । यथाऽऽह भूयस्त्वस्य बाधकताप्रयोजकत्वं पूर्वतन्ने जैमिनिः ‘विप्रतिषिद्धधर्माणां समवाये भूयसां स्यात्सधर्मत्वम् ' (१२-२-२४) इति । अत्र सूत्रे श्रुतिलिङ्गमात्रबोधकं पदं किमपि नास्ति । विप्रतिषिद्धधर्मपदं च श्रुतिस्मृतिसाधारणं । अत एव विरोधाधिकरणे वार्तिककृता श्रुतिलिङ्गे यथाचेष्टे व्यवस्थितबलाबले । सन्निकृष्टविकृष्टार्थे तथैवेह श्रुतिस्मृती ॥ इति श्रुतिस्मृत्योः श्रुतिलिङ्गतुल्यबलाबलत्वोक्तिस्संगच्छते । स्मृत्यनु
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy