________________
182 सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे जडद्रव्य
सर्वार्थसिद्धिः 1*अनुक्तानामविरुद्धानामपेक्षितानामन्यतोऽपि ग्राह्यत्वं स्थापितम्।
आनन्ददायिनी इत्यर्थः । अनुक्तानामिति—आचमनादीनां स्मार्तानामपि दर्शादिविधिना (ग्राह्यत्वं) ग्रहणं क्रमविरोध्यपि कर्मकाण्डे स्थापितमित्यर्थः ।
__ भावप्रकाशः मितपठितश्रुत्योरवैलक्षण्यमुदाहृतविरोधाधिकरणकुमारिलवार्तिकसिद्धमिति 'भूयस्त्वेनोभयश्रुति' ३-३-२० इति सूत्रोक्तन्यायेन पञ्चीकरणस्यैव विधिः न त्रिवृत्करणस्येति बोध्यम् । अत्रानन्यपरणामित्यनेन छान्दोग्यश्रुतेरन्यपरत्वं दर्शितम् । अक्षपाददर्शनादौ आकाशस्य नित्यतायाः तस्य वायोश्चाप्रत्यक्षताया अङ्गीकारेणाकाशवाय्वोस्सृष्टिः शुश्रूषोश्श्वेतकेतोः झडिति न ज्ञातुं शक्यत इति पूर्व छान्दोग्ये सृष्टयकथनं । तेन च त्रिवृत्करणमात्रमुक्तं । तेजोबन्नेषु त्रिवृत्करणज्ञानानन्तरमाकाशवाय्वोः श्रुत्यन्तरोक्तसृष्टर्निर्धारणे सति स्थूलारुन्धतीन्यायेन पञ्चीकरणप्रकारोऽपि ज्ञायत इति भावः । एतावता पञ्चीकरणस्मृतेः त्रिवृत्करणश्रुत्या सह विरोधमभ्युपेत्य परिहार उक्तः ; अथ विरोध एव नास्तीत्याह-* अनुक्तानामित्यादिना । अयमाशयः-यद्यपि छान्दाग्ये आकाशवाय्वोः सृष्टि!क्ता ; तथाऽपि तैत्तिरीयोक्ता सा सर्वशाखाप्रत्ययन्यायेन तत्रापि विवक्षिता । तदुक्तं वियदधिकरणश्रुतप्रकाशिकायां" किंच कुत्र चित् कस्यचिदवचनमन्यत्रापि तत्प्रतिपत्तिं वारयति चेत् सर्वशाखाप्रत्ययनयो निर्विषयस्स्यादिति भावः इति ।" एवंच 'तासां त्रिवृतं त्रिवृतमेकैकाम्' इति श्रुतौ तच्छब्दस्य पञ्चभूतान्यर्थः । त्रिवृतमित्यस्य भागत्रयविशिष्टतया वर्तमानामित्यर्थः । अत्र यद्यपि