SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ सर:] त्रिगुणपरीक्षायां प्रकृतिविकृतीनामीश्वराधिष्ठानेन कार्यकरत्वम् 179 तत्वमुक्ताकलापः द्वेधा भूतानि भित्त्वा पुनरपि च भिनत्त्यर्धमेकं चतुर्धा तैरेकैकस्य भागैः परमनुकलयत्यर्वमधं च सर्वार्थसिद्धिः व्यनक्ति द्वधेति । स खल्वादिकर्ता स्वसृष्टानि *पश्च भूतानि द्विधा कृत्वा ऐकैकं भागं स्थापयित्वा अर्धान्तराणि चतुर्धा विभज्य तत्तद्भागैश्चतुर्भिर्भूतान्तराणामविभक्तान्यर्धान्तराण्यनुकलयति । यथोक्तम् *एवं जातेषु भूतानि प्रत्येकं स्युद्धिधा ततः। चतुर्धा भिन्नमेकैकं अर्धमधं ततः स्थितम् । व्योम्नोऽर्धभागाश्चत्वारो वायुतेजःपयोभुवाम् ॥ आनन्ददायिनी यद्यपि पञ्चधा विभागस्सिद्धान्तेऽपि ; तथापि एकस्य भूतस्य समतया न पञ्चधा विभागः । अपि तु द्विधा विभागे तत्रैको भागश्चतुर्धा विभज्यते भावप्रकाशः 1*पञ्च भूतानीति-अत्र 'पञ्च तन्मात्रा भूतशब्देनोच्यन्ते पञ्च महाभूतानि भूतशब्देनोच्यन्ते' इति मैत्रायणीयश्रुत्या भूतशब्दस्य तन्मात्रसाधारण्येऽपि । त्रिवृत्करणश्रुतिस्मृत्यनुरोधान्महाभूतान्येवभूतशब्देनोच्यन्ते । परमतभङ्गे–'तन्मात्रेषु पञ्चीकरणं पञ्चीकृतांशा आकाशादयइत्युक्तिः तत्वपरिगणनपरश्रुतिस्मृतिपुराणादेरननुगुणा' इति सूक्तिरिह भाव्या । तन्मात्राणां न पञ्चीकरणं किन्तु व्योमादिभूतानामेवेत्यत्र मानमाह-2*एवं जातेष्वित्यादिना ॥
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy