________________
सरः]
त्रिगुणपरीक्षायां प्रकृतिविकृर्तानामीश्वराधिष्ठानेन कार्यकरत्वम् 177
तत्वमुक्ताकलापः
इशरीरी तत्तत्कार्यान्तरात्मा भवति च तदसौ विश्रुतो विश्वरूपः । तेजोऽन्नाभिधेये बहुभवनमभि
1
सर्वार्थसिद्धिः
देश्वार्थमाह – तत्तदिति । अन्तर्यामिब्राह्मण सुबालोपनिषदादिप्रसिद्धिमपि संवादयति तदसाविति । विश्रुतः—प्रधानपुरुषविलक्षणत्वेन विश्वशरीरकतया प्रत्यक्षश्रुतिसिद्धः । कचि - द्विश्वरूपशब्देनापि । ' तत्तेज ऐक्षत' 'बहु स्यां' 'ता आप ऐक्षन्त' 'बह्वयस्स्याम' इति वाक्यविशेषाभिप्रेतं तद्व्यनक्तितेज इति । न ह्यचेतनमात्रस्य अनुत्पन्न करणकळेचरस्य कर्मिणो वा तदानीं बहुभवन संकल्पाश्रयत्वं युक्तं ; गौणत्वं चात्रापि 'गौणश्चेन्नात्मशब्दात ' इति सूत्रन्यायेन निरस्तम् ।
आनन्ददायिनी
इति शरीरत्वोक्तिरिति भावः - अन्तर्यामीति । ' यस्य पृथिवी शरीरं यस्यापश्शरीरम्' इत्यादिनाऽन्तर्यामि ब्राह्मणादिषु शरीरत्वोक्तेरित्यर्थः । कचिद्विश्वरूपेति–'विश्वात्मन्' ‘'विश्वरूपाय वै नमः ' ।' सर्वात्मन् ' ' विश्वरूप' इत्यादावित्यर्थः । एवं तेज ऐक्षत आप ऐक्षन्त इत्यादिश्रुत्या बाघ इत्याहततेज ऐक्षतेत्यादि । तथा च चेतनाधिष्ठिता प्रकृतिः कारणमिति भावः । नन्वत्रेश्वराधिष्ठितत्वं न प्रतीयत इत्यत्राह — अभिप्रेतमिति । ननु प्रकृतेरचेतनायास्सङ्कल्पाश्रयत्वाभावेऽपि जीवस्य सम्भवाज्जीवस्त्रष्टाऽस्त्वित्यत्राह — अनुत्पन्न करणकळेचरस्येति । नन्वैक्षतेतीक्षणं प्रवृत्तिमात्रं । तच्चाचेतनायाः प्रकृतेः सम्भवतीत्युक्तमित्यत्राह – गौणत्वं चेति
1
SARVARTHA.
12