________________
176
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
जडद्रव्य
तत्वमुक्ताकलापः हलतयाऽप्यत्र तज्ज्ञैरुदासि ॥ १५ ॥ निश्शेष कार्यतत्वं जनयति स परो हेततत्वै
सर्वार्थसिद्धिः प्रक्रान्तेषु प्रकृत्यादिकारणेषु
पुरुषार्थ एव हेतुः न केनचित्कार्यते करणम् ॥ इति वदतस्साङ्ख्यस्य अनन्यथासिद्धैश्श्रुत्यादिभिर्वाधमाह-निश्शेषमिति । 'यत्किञ्चित्सृज्यते येन' 'जगत्सर्वं शरीरं ते' इत्यादिभिरेतत्सिद्धम् । 'तत्सृष्ट्वा' तदेवानुप्राविशत्' इत्या
____ आनन्ददायिनी उत्तरपद्येन तत्वानामीश्वरनिघ्नताकथनस्य का सङ्गतिः ? विवादाभावेन व्यर्थं चेत्यत्राह-प्रक्रान्तेति । प्रसङ्ग एव सङ्गतिर्विवादश्वास्तीति भावः । सांख्यपद्यं पठति-पुरुषार्थ इति । करणं चक्षुरादिकं सर्वं तत्वजातं केनचिदधिष्ठात्रा न कार्यते। कथं तर्हि तेषां प्रवृत्तिः ? पुरुषार्थ एव हेतुः-स्वर्गापवर्गलक्षणः पुरुषार्थ एवानागतावस्थालक्षणसिद्धये प्रवर्तयतीत्यर्थः। चैतन्याभावेऽपि पुरुषार्थस्य प्रवर्तकत्वं संभवति
वत्सविवृद्धिनिमित्तं क्षीरस्य यथा प्रवृत्तिरज्ञस्य । इत्युक्तेः । एतसिद्धमिति-शरीरत्वं सिद्धमित्यर्थः ।
यत्किञ्चित्सृज्यते येन भूतं स्थावरजङ्गमम् । . . तस्य सृज्यस्य सम्भूता तत्सर्वं वै हरेस्तनुः ॥