________________
सरः]
त्रिगुणपरीक्षायां प्रकृतिविकृतिविभागपरीक्षा तद्गणनपरीक्षाच
175
तत्वमुक्ताकलापः र्वमावर्जनीयम् । दृष्टा सांख्यं पुराणादिकमपि बहधा निर्वहन्त्येतदेके चिन्तासाफल्यमान्द्याच्छमब
सर्वार्थसिद्धिः यथामति । तदिदमाह-दृष्ट्वेति । एतत्-इतरत्सर्वं वाक्यजातमित्यर्थः। किमिति पूर्वाचार्यैरत्रोपेक्षितं तत्राह-चिन्तेति
न प्रधानविरोधस्स्यादीदृशानवधारणे । इति शिक्षयितुं शिष्यान् प्राचां क्वचिदनिश्चयः ॥ इति त्रिगुणपरीक्षायां प्रकृति विकृति विभाग
परीक्षा तद्गणनपरीक्षा च.
आनन्ददायिनी आकाशात् स्पर्शतन्मात्रं तम्माद्वायुः वायोः रूपतन्मानं तस्मातेज इत्यादिरूपः। मूलश्लोकस्यायमन्वयः- केचित्-सांख्यादयः सांख्यं योगं पुराणादिकं च दृष्ट्वा बहुधा निर्वहन्ति ; बहुधेत्यस्य दृष्ट्वेत्यत्रान्वयः । निर्वहन्ति–सृष्टिक्रमं वदन्ति । तदितरत् सर्व-आथर्वणवाक्यादितरत् सर्व। निष्कर्षेदम्परेऽस्मिन् निस्सन्देहं प्रकृतिविकृतिविभागेदम्परे आर्थर्वणवचने । आवर्जनीयं-आथर्वणोक्तानुसारेण नेतव्यमिति । औदासीन्यस्य प्रयोजनमाह-न प्रधानेति । तत्वहितपुरुषार्थप्रमितिविरोधाभावादीदृशावधारणे नावश्यं यत्नः कर्तव्य इत्यर्थः । अत्र पौराणिकः पक्षः आथर्वणिकाभिमतत्वाद्गन्थकारस्याभिमत इति द्रष्टव्यम् । न्यायसिद्धाञ्जने तु द्वादशप्रकृतिपक्षाङ्गीकारः प्रतीयते। तथा च पक्षान्तरमप्यस्तीत्याहुः ॥ १५ ॥
इति प्रकृतिविकृतिविभागपरीक्षा तद्गणनपरीक्षाच.