________________
166
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
जडद्रव्य
भावप्रकाशः णामः कादाचित्कस्स्यात् ; यतः सत्यपि व्ययोत्पादवत्त्वे पर्यायाणां 'तद्भावाव्ययं नित्यं' (३०सू)। किं अध्यवस्यामः । द्रव्यमिति वाक्यशेषः। तद्भाव इत्युच्यते ; कस्तद्भावः? 'प्रत्यभिज्ञानहेतुना तद्भावः। तदेवेदमिति स्मरणं प्रत्यभिज्ञानं । तदकस्मान्न भवति इति योऽस्य हेतुः स तद्भावः । भवनं भावः तस्य भावस्तद्भावः इति । यद्यति उत्पद्यते च तत्सन्नित्यं चेत्यतिसाहसमेतत् दुरुपपादत्वात् कथं श्रद्धीयत इति ; अत्रोच्यते ; श्रद्धेहि ; व्ययोत्पादवत्सु पर्यायेषु अव्यभिचारण सन्नित्यत्वे स्त इति । कुतः ? यस्माद्दव्यार्थिकपर्यायार्थिकनयसंभवे अन्यतरविवक्षावशात् . यथोक्ते उभे अपि । 'अर्पितानर्पितसिद्धेः (३१) । धर्मान्तरविवक्षाप्रापितप्राधान्यमर्पित-अनेकात्मकस्य वस्तुनः प्रयोजनवशाद्यस्यकस्यचिद्धर्मस्य विवक्षायां प्रापितप्राधान्यमर्थरूपमर्पितमुपनीतमिति यावत् । 'तद्विपरीतमनर्पितम् ' प्रयोजनाभावात् सतोऽप्यविवक्षा भवतीत्युपसर्जनीभूतमनर्पितमित्युच्यते। अर्पितं चानर्पितं च अर्पितानर्पिते । ताभ्यां सिद्धे सन्नित्यत्वे अर्पितानर्पिताभ्यां सिद्धे सन्नित्यत्वे अर्पितानर्पितसिद्धिः । तद्यथा-मृत्पिण्डः रूपिद्रव्यमित्यर्पितस्स्यान्नित्यः तदर्थापरित्यागात् । अनेकधर्मपरिणामिनोऽर्थस्य धर्मान्तरविवक्षाव्यापारात् रूपिद्रव्यात्मनानपणात् मृत्पिण्ड इत्येवमर्पितं पुद्गलद्रव्यं स्यादनित्यं तस्य पर्यायस्याध्रुवत्वात् । तत्र यदि द्रव्यार्थिकनयविषयमात्रपारग्रहः स्यात् व्यवहारलोपः ; तदा त्मकवस्त्वभावात् । यदि पर्यायार्थिकनयगोचरमात्राभ्युपगमः स्यात् लोकयात्रा न सिद्धयति ; तथाविधस्य वस्तुनोऽसद्भावात् । तावे. कत्रोपसंहृतौ लोकयात्रासमर्थौ भवतः । तदुभयात्मकस्य वस्तुनः प्रसिद्धेः । इत्येवमर्पितानर्पितव्यवहारसिद्धे सन्नित्यत्वे इति । उदाहृतग्रन्थसंदर्भ पर्यायाणां विचित्रत्वं तेषामेव गुणानां अक्रमत्वमपि स्फुटम् ।