________________
सरः]
त्रिगुणपरीक्षायां जैनोक्तशाश्वतभूतभेदक्लूप्तिभङ्गानुवादः
167
सर्वार्थसिद्धिः र्यायान् भजत इति । यथा कणादप्रभृतीनां एकैकभूतपरमाणवः; यथा च साङ्ख्यादीनामेकैकं भूतं । अतो न शाश्वतभूतभेदक्लप्तिः। वाय्वादिचातुर्विध्योक्तिरपि पर्यायभेदनिबन्धना ।
आनन्ददायिनी दिभिरनियतवाय्वादिरूपपर्याया उत्पद्यन्त इत्युक्तमिति भावः । यथा कणादप्रभृतीनामिति । अनियतमृत्पाषाणाद्युत्पत्तिरित्यर्थः । न शाश्वतभूतभेदक्लप्तिरिति । तैर्नित्यत्वानभ्युपगमादिति भावः । ननु
वायुस्तेजो जलं भूमिरिति भिन्नाश्च पुद्गलाः ।। इति चातुर्विध्योक्तिः कथमित्यत्राह-वायवादीति । पर्यायः--पारणामः अवस्था इति यावत् । एकजातीयस्यैव परिणामभेदनिब
भावप्रकाशः सहभवगुणात्मकपर्यायाभिप्रायेण मूले 'स्पर्शादिभेद' इत्युक्तं । क्रमभवप
यतात्पर्येण 'द्रवमृदुकठिनीभावभेदः' इति। एतद्विषयेऽप्यव्यवस्थितक्रमत्वं 'नित्यावस्थितान्यरूपाणि' (५-४-२) इति सूत्रेण गम्यते । यथाऽऽह विद्यानन्दः
द्रव्यार्थिकनयात्तानि नित्यान्येवान्वितत्वतः । अवस्थितानि साङ्कर्यस्यान्योन्यं शश्वदस्थितेः । ततो द्रव्यान्तरस्यापि द्रव्यषट्कादभावतः ॥ ..
तत्पर्यायानवस्थानानित्यत्वे पुनरर्थतः । इति । परिणामस्त्रिविधः सदृशः विसदृशः सदृशविसदृशश्चेति । तत्र गोत्वादिः सदृशपरिणामस्सामान्यं । विसदृशपरिणामो विशेषः खण्डत्वादिः । नाशः प्रागभावश्चायमेव । सदृशविसदृशपरिणामश्च मृत्कपालघटाद्युपादानापादेयभावस्थले सर्वत्रेति बोध्यम् ।