SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ सरः ] त्रिगुणपरीक्षायां जैनोक्तशाश्वतभूतभेदक्लृप्तिभङ्गानुवादः 165 भावप्रकाशः तद्भावः परिणामोऽत्र पर्याय: प्रतिवर्णितः । गुणात्सहभुवो भिन्नः क्रमवान् द्रव्यलक्षणम् ॥ पर्याय एवं च द्वेधा सहक्रमविवर्तितः । शुद्धाशुद्धत्वभेदेन यथा द्रव्यं द्विधोदितम् ॥ (४२) इति । उत्पादव्ययधौव्ययुक्तं सत् (५-२९) इति सूत्रे उत्पादादीनां द्रव्यस्य च उभयथा लक्ष्यलक्षणभावानुपपत्तिरिति चेन्न ; — अन्यत्वानन्यत्वं प्रत्यनेकान्तोपपत्तेः' इत्यादौ भिन्नाभिन्नत्वं व्यक्तं राजवार्तिके ' स्यान्मतं ; उत्पादव्ययधौव्याणि द्रव्यादर्थान्तरभूतानि वा स्युः अनर्थान्तरभूतानि वा ? यद्यर्थान्तरभावः कल्प्येत तानिव सत्वानि ततोऽन्यत्वात् द्रव्यत्वाभावस्स्यात् । तदभावे च निराधारत्वादुत्पादादीनामभावः इति लक्ष्यलक्षणभावो नोपपद्यते । न हि असतां वन्ध्यापुत्राकाश कुसुमादीनां लक्ष्यलक्षणभावोऽस्ति । अथानर्थान्तरत्वमिष्येत लक्ष्यमेव लक्षणमिति दृष्टविरोधस्स्यादिति ; तन्न ; किंकारणं ? अन्यत्वानन्यत्वं प्रत्यनेकान्तोपपत्तेः । पर्यायिणः पर्यायाणां च स्यादन्यत्वं स्यादनन्यत्वं । यथैकस्य मनुष्यस्य जातिकुलरूपादिभिः अविशिष्टस्य अनेकसम्बन्धान्तराविर्भूतपितृपुत्र भ्रातृभागिनेयादयो धर्माः परस्परतो विशिष्टा उपलभ्यन्ते ; न तेषां भेदात्तस्य भेदः । नापि तस्याभेदात्तेषा - मभेदः । ततः पितृत्वादिशक्त्यपेक्षया नाना मनुष्यत्वापेक्षया न पृथक् । तथा द्रव्यस्यापि बाह्याभ्यन्तरहेतुविशेषापादिताः पर्यायाः कथञ्चिद्भिन्नाः द्रव्यार्पणात्कथञ्चिदभिन्ना इति नासत्त्वं लक्ष्यलक्षणभावाभावः । तस्मादुत्पादादित्रयैक्यवृत्तिः सत्ता तद्युक्तं द्रव्यमित्यवसेयं । अत्राह - द्रव्यस्यात्मभूतोऽन्वयो धर्मः । पर्यायेोऽप्यात्मभूतो द्रव्यस्येति तन्निवृत्तिवद्द्द्व्यनिवृत्तिकल्पनायामुच्छेद प्रसङ्ग इति, अत्र ब्रूमहे - स्यादेतदेवं ; यदि क्रमेण पिण्डघटकपालादिवद्रपिद्रव्याजीवानुपयोगत्वादिलक्षणः परि
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy