________________
164
सव्याख्यसर्वार्थासद्धिसहिततत्वमुक्तोकलाप
[जडद्रव्य
भावप्रकाशः
इति सूत्रं (४-१-२)। अत्र राजवार्तिकं-गुणा द्रव्यादर्थान्तरभूताः इति केषाञ्चिदर्शनं ; तत्किं भवत्संमतं ? नेत्याह । यद्यपि कथञ्चिद्वयपदेशादिभेदहेत्वपेक्षया द्रव्यादन्ये तद्वयतिरेकात्तत्परिणामाच्चानन्ये । यद्येवं स उच्यतां कः परिणामः इति ? तन्निश्चयार्थमिदमुच्यते-तद्भावः परिणामः । धर्मादीनां येनात्मना भवनं स तद्भावः पारीणामः । तत्स्वरूपं व्याख्यातं इति । 'वर्तना परिणामः' इत्यादौ च 'एकस्मिन् अविभागिनि समये धर्मादीनि द्रव्याणि षडपि स्वपर्यायैरादिमदनादिमद्भिरुत्पादात्ययध्रौव्यविकल्पैर्वर्तन्त इति कृत्वा तद्विषया वर्तना' 'द्रव्यस्य स्वजात्यपरित्यागेन प्रयोगविस्रसालक्षणो विकारः परिणामः' । ' द्रव्यस्य चेतनस्येतरस्य वा द्रव्यार्थिकनयस्य अविवक्षातो न्यग्भूतां स्वां द्रव्यजातिमजहतः पर्यायार्थिकनयार्पणात् प्राधान्यं बिभ्रता केनचित् पर्यायेण प्रादुर्भावः पूर्वपर्यायनिवृत्तिपूर्वको विकारः प्रयोगविस्रसालक्षणः परिणाम इति प्रतिपत्तव्यः । तत्र प्रयोगः-पुद्गलविकारः । तदनपेक्षा विक्रिया विस्रसा। तत्र परिणामो द्विविधः अनादिरादिमांश्च। अनादिलोकसंस्थानमन्दराकारादिः । आदिमान् प्रयोगजो वैस्रसिकश्च । तत्र चेतनस्य द्रव्यस्यौपशमिकादिर्भावः कर्मोपशमाद्यपेक्षोऽपौरुषेयत्वात् वैस्रसिक इत्युच्यते । ज्ञानशीलभावनादिलक्षणः आचार्यादिपुरुषप्रयोगनिमित्तत्वात् प्रयोगजः । अचेतनस्य च मृदादेः घटसंस्थानादिपरिणामः कुलालादिपुरुषप्रयोगनिमित्तत्वात्प्रयोगजः । इन्द्रधनुरादिनानापरिणामो वैस्रसिकः । तथा धर्मादेरपि परिणामो योज्यः इति । एवं श्लोकवार्तिकमपि
गुणवव्यमित्युक्तं सहानेकान्तसिद्धये । तथा पर्यायवद्दव्यं क्रमानेकान्तावत्तये ॥३८॥