________________
160
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
जडद्रव्य
सर्वार्थसिद्धिः दुर्निवारमित्यर्थः । श्रुतिषु च न्यूननिर्देशेषु अनुक्तमधिकमन्यतो ग्राह्यं श्रुतहानायोगात् । अव्यवस्थितन्यूनाधिकसृष्टिकल्पने गौरवाच ॥१३॥ त्रिगुणपरीक्षायां तोयतेजसोः परस्परहेतुताप्रमाण
गतिव्यवस्था. ननु कथमेवं तोयतेजसोः व्यष्टिसमष्टिसृष्टिव्यवस्था? विचित्रपरिणामशालिनस्त्रिगुणस्य कालभेदेनानियतपरिणामोपपत्तेः ।
. आनन्ददायिनी पृथिवीसृष्टेःव्यष्टितः पूर्वभावः प्रतिपाद्यत इति न विरोध इति भावः । नन्वेतच्छ्रतिस्मृत्यनुसारेणैव श्रुत्यन्तराणां वा नयनं कुतो न स्यादित्यत आह-श्रुतिषु चेति । न्यूननिर्देशानुसारेणाधिकश्रुतेर्नयने विरोधादधिकश्रुत्यनुसारेण नयने शाखान्तराधिकरणन्यायेन विरोधाभावादिति भावः । नन्वन्यतरानुसारेण किमर्थमन्यतरा श्रुतिर्नेया ? विकल्पितयोः व्रीहियवयोः प्रयोगभेदेनेव कल्पभेदेनोभयोरुपपत्तेरित्यत आह–अव्यवस्थितेति 'धाता यथापूर्वमिति' व्यवस्थायाः सर्वकल्पेषु श्रुतत्वादिति भावः ॥१३॥
त्रिगुणपरीक्षायां तोयतेजसोः परस्परहेतुताप्रमाणगतिव्यवस्था. आक्षेपिकी संगतिमाह-कथमिति । व्यष्टिसमष्टिसृष्टिव्यवस्था
भावप्रकाशः तत्वार्थाधिगमसूत्रेषु–पञ्चेन्द्रियाणि । द्विविधानि । निर्वृत्त्युपकरणे द्रव्येन्द्रियम् । लब्द्धयुपयोगौ भावेन्द्रियम् । स्पर्शनरसनघ्राणचक्षुश्श्रोत्राणि । (२-अ १५-२०) इतीन्द्रियद्वैविध्यमभि. धाय स्पर्शरसगन्धवर्णशब्दास्तदर्थाः (२-अ-२१) इत्युक्तम् । अत्र