SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ सरः] त्रिगुणपरीक्षायां तोयतेजसोः परस्परहेतुता प्रमाणगतिव्यवस्था 159 सर्वार्थसिद्धिः मेरप्यद्यः पूर्वभावित्वं बहुश्रुतिस्मृतिसिद्धं । अतस्तदविरुद्ध आनन्ददायिनी एव ससर्जादाविति' श्रुतिस्मृती । इदमबादिकं कार्य सलिलं प्रकृतिरासीत्प्रळयकाल इत्यर्थः । आचार्यैस्सलिलशब्दस्य प्रकृतिपरत्वस्य परमतभङ्गे प्रदर्शितत्वात् । न ह्यपां सर्वपूर्वभावः प्रतिपादयितुं शक्यः महदादीनां तत्पूर्वभाविनां दुरपह्नवत्वात् । नापि तेजःपूर्वभावः । नियामकाभावात् । तथा च "अनेरापः । तत्तेजोऽसृजत । आपस्तेजसि लीयन्ते । प्रधानं तत्वमुद्भूतमिति” बहुश्रुतिस्मृत्यन्तरानुगुण्येन भावप्रकाशः इत्युपक्रम्य- विगानाद्धि विकल्पस्स्यात् नैकस्याप्यप्रमाणता । इति च । विरोधाधिकरणनिष्कर्षणं तु यावदेकं श्रुतौ कर्म स्मृतौ वाऽन्यत्प्रतीयते । तावत्तयोविरुद्धत्वे श्रौतानुष्ठानमिष्यते ॥ ततश्च तुल्यकक्षाऽपि यदि नाम स्मृतिर्भवेत् । तथाऽपि नैव दोषोऽस्ति श्रुत्यर्थमनुतिष्ठताम् ॥ इति । तदुक्तं न्यायपरिशुद्धौ-श्रुतिस्मृत्योर्विरोधे तु स्मृत्या मूलान्तरानुमानादनुष्ठानविकल्पं केचिदाहुः' इति । एतदुत्तरं सर्वेषां गुणत्रयवतामाप्ततमत्वे हि कादाचित्कभ्रमसंभवाच्छृत्या स्मृतिबाध इत्यपरे' इति सूक्तिः शाबरभाष्यपरिष्कृतिः । अत्राबाधेन गतिमत्त्वसम्भवे इत्यनेन ‘तत्वविषये तु विरोधे बाध एव आन्यपर्यं वा वस्तुनि विकल्पासंभवात्' इति न्यायपरिशुद्धयुक्तपक्षद्वये आन्यपर्यपक्ष एव स्वाभिमत इति सूचितम् ॥
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy