________________
सर:]
त्रिगुणपरीक्षायां जैनोक्तशाश्वतभूतभेदक्लृप्तिभङ्गानुवादः
161
तत्वमुक्ताकलापः '* पृथ्य्याः स्पर्शादिभेदो द्रवमृदुकठिनीभावभे
भावप्रकाशः
राजवार्तिके भट्टाकलङ्क : – स्पर्शादीनां कर्मभावसाधनत्वं द्रव्यपर्यायविवक्षोपपत्तेः । स्पर्शादीनामानुपूर्व्येण निर्देश इन्द्रियक्रमाभिसम्बन्धार्थो वेदितव्यः इति । इन्द्रियक्रमाभिसम्बन्धार्थः -- स्पर्शश्च रसश्च गन्धश्व वर्णश्च शब्दश्च स्पर्शरसगन्धवर्णशब्दा इत्यानुपूर्व्येण निर्देशः स्पर्श - नादिभिरिन्द्रियैः क्रमेणाभिसंबन्धो यथा स्यात् इति । एते पुद्गलद्रव्यस्य गुणा अविशेषेण वेदितव्याः । अत्र केचिद्विशिष्य तान् कल्पयन्तिरूपरसगन्धस्पर्शवती पृथिवी । रूपरसस्पर्शवत्य आपो द्रवाः खिग्धाश्च । तेजो रूपस्पर्शवत् । वायुः स्पर्शवानिति । तदयुक्तं रूपादिमान् वायुः स्पर्शवत्त्वात् घटवत् । तेजोऽपि रसगन्धवत् रूपवत्त्वात् गुडवत्। आपोऽपि गन्धवत्यः रसवत्त्वादाम्रफलवत् । किञ्च अबादिषु गन्धादीनां साक्षादुपलब्धेश्च । पार्थिवपरमाणु संयोगादुपलब्धिरिति चेन्न ; विशेषहेत्वभावात् । नात्र विशेषहेतुरस्ति पार्थिवपरमाणूनामेते गुणाः संसर्गात्त्वन्यत्रोपलभ्यन्ते ; न स्वबादीनामिति । वयं ब्रूमहे - तद्गुणाः तत्रोपलब्धेरिति । यदि हि संयोगादुपलब्धिः कथ्यते रसाद्युपलब्धिरपि संयोगादेव कल्प्यताम् । नच पृथिव्यादीनां जातिभेदोऽस्ति ; पुद्गलजातिमजहन्तः परमाणुस्कन्धविशेषा निमित्तवशाद्विश्वरूपतामापद्यन्त इति दर्शनात् । दृश्यते हि पृथिव्याः कारणवशाद्द्वता । द्रवाणां चापां करकात्मभावेन घनभावो दृष्टः । घनश्च द्रवभावः । तेजसोऽपि मषीभावः । वायोरपि दृष्टा रूपादयः । कथं गम्यते इति चेत्; परमाणुषु तेषां रूपादीनां कथं गतिः ? तत्कार्येषु दर्शनादनुमानमिति चेत् इहापि तत एव वेदितव्यम् । इति । एतद्वार्तिकार्थमनुवदतिमूले '* पृथ्व्या इत्यादि । तत्र पुद्गलस्येति शेषः ।
SARVARTHA.
11