________________
138
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
जडद्रव्य
सर्वार्थसिद्धिः न ह्यत्र लिङ्गशब्दोक्तसूक्ष्मशरीरसद्भावेप्रमाणमस्ति स्थूलवत्प्रत्यक्षं,
आनन्ददायिनी इत्यादिशब्दार्थः । अस्यार्थः-पूर्वं मातापितृजन्यशरीरस्य भस्मकीटान्तत्वेन निवृत्तिः सूक्ष्मशरीरस्य नैयत्यं चोक्तं.:. सूक्ष्मास्तेषां नियता मातापितृजा निवर्तन्ते । - इति । पूर्वोत्पन्नं प्रकृतस्थूलभूतोत्पत्तेः पूर्वं प्रकृतित उत्पन्न प्रतिपुरुषमेकैकमित्यर्थः । अ (व्यक्त) सक्तं-अव्याहतं शिलास्वप्यनुप्रवेशसमर्थमिति यावत् । नियतं-आच महासर्गादाच प्रळयादवतिष्ठते । महदादिसूक्ष्मपर्यन्तं-महदहकारैकादशेन्द्रियपञ्चतन्मात्रपर्यन्तं तेषां समुदाय इत्यर्थः । नन्वेतदेवास्तु किं घाटकौशिकशरीरेणेत्यत आहसंसरतीति । उपातं षाटकौशिकं शरीरं जहाति हायंहायं चोपादत्ते; तस्मान्निरुपभोग-यतः घाटकौशिकं विना सूक्ष्मशरीरं निरुपभोगं तस्मात्संसरति । ननु धर्माधर्मनिमित्तः संसारः; न च सूक्ष्मशरीरस्यास्ति तद्योगः; तत्कथं संसरतीत्यत्राह । भावैरधिवासितं-धर्माधर्मज्ञानाज्ञानवैराग्यावैराग्यैश्वयानैश्वर्याणि भावाः । तदन्विता बुद्धिस्तदन्वितं सूक्ष्मशरीरं तदपि भावैरधिवासितं ; यथा सुरभिचम्पकसम्पकोद्वस्त्रं तदामोदवासितं भवति । तस्मात्संसरति। तस्मात्प्रधानमिव महाप्रळये तच्छरीरं न तिष्ठतीत्यत्राह–लिङ्गमिति । लयं गच्छतीति लिङ्गं हेतु(मत्त्वा)त्वदिति भावः । किमत्र सूक्ष्मशरीरसद्भावे प्रमाणं प्रत्यक्षमनुमानमागमो वेति विकल्पमभिप्रेत्य प्रथमं दूषयति । न हीति स्थूलवत्--स्थूलशरीर इव । सप्तम्यर्थे वतिः । द्वितीयमाशङ्कते