________________
सर: ]
त्रिगुणपरीक्षायां प्रकृत्यनुमाननिरासः
139
सर्वार्थसिद्धिः
विभोरात्मनस्स्वर्गादिगत्युपदेशान्यथानु
कैश्चिदप्यनुपलम्भात्, पपत्त्या तत्क्लुप्तिरिति चेन्न तद क्लृप्तावपि युष्मन्मते तद्गतेरात्मन्युपचारात् । ततो वरमदृष्टशक्तया तत्रतत्र देहोत्पत्तिमात्रेण तत्तदेशगत्युपचारः ।
आनन्ददायिनी
विभोरिति स्वतः स्पन्दात्मकगतेरसम्भवादिति भावः । तत्तदेशगत्युपचार इति — यद्यपि लिङ्गशरीरे साक्षाद्गतिरस्ति तथाप्यात्मनो न सेति तत्र गत्युपदेश औपचारिक एव । तथा च देशान्तरशरीरोत्पत्त्याप्यौपचारिकव्यवहारसम्भवान्नोक्तं गतिमत्त्वं लिङ्गमिति भावः । अनुमानान्तरं भावप्रकाशः
चित्रं यथाऽऽश्रयमृते' स्थाण्वादिभ्यो विना यथा च्छाया । तद्वद्विना विशेषैर्न तिष्ठति निराश्रयं लिङ्गम् ॥
इति कारिका। ‘ चित्रमिति-लिङ्गनात् ज्ञापनाद्बुद्ध्यादयो लिङ्गं । तदनाश्रयं न तिष्ठति । जन्ममरणान्तराळे बुद्ध्यादयः प्रत्युत्पन्नशरीराश्रिताः प्रत्युत्पन्नपञ्चतन्मात्रवत्त्वे सति बुद्धयादित्वात् दृश्यमानशरीरवृत्तिबुद्ध्यादिवत् । विना विशेषैरिति — सूक्ष्मैश्शरीरैरित्यर्थः ॥
ततस्सत्यवतः कायात्पाशबद्धं वशं गतम् ।
अङ्गुष्ठमात्रं पुरुषं निश्चकर्ष बलाद्यमः || भारते । व । २९६ श्लो— इत्यङ्गुष्ठमात्रत्वेन सूक्ष्मशरीरवत्त्वमुपलक्षयति । आत्मनो निष्कर्षास - म्भवात् । ' सूक्ष्ममेव शरीरं पुरुषः ; तदपि पुरि स्थूलशरीरे शेते . इति तत्वकौमुदी । प्रधानवत्प्रलयावस्थायिशरीरसिद्ध्या अर्थान्तरवा - रणाय प्रत्युत्पन्नेति—सर्गं प्रत्युत्पन्नेत्यर्थः । न च दृष्टान्तासिद्धिः ; । दृश्यमानेत्यादेरुत्पन्नमात्रपरत्वात् ' इति तद्विभाकरः । तत्र विपक्षे बाधकागमे पुरुषशब्दस्य प्रयोगभूयस्त्वेन शरीरिणि जीव एव स्वर