________________
सरः]
त्रिगुणपरीक्षायां प्रकृत्यनुमाननिरासः
137
सर्वार्थसिद्धिः सूक्ष्मावस्थात्स्वस्मादेव जगदुत्पत्स्यत इति; तथापि संप्रतिपन्नावधिस्तत्वपतिरस्तु । यद्वा तदपि सूक्ष्मं सूक्ष्मान्तरादिति कथं तत्वेयत्ता । एतेन सांख्यानां सूक्ष्मशरीरप्तिश्व निरस्ता। यदाहुः- पूर्वोत्पन्नम(व्यक्त)सक्तमित्यादिना, तन्न,
आनन्ददायिनी गणनाप्रयोजकत्वाभावादिति भावः । संप्रतिपन्नावधिरिति । महत्तत्वावधिरित्यर्थः । यद्यप्यहङ्कारादिकारणस्य महतस्सूक्ष्मत्वमस्ति (तथापि) तदपि सूक्ष्मान्तरसापेक्षं । तस्य च सूक्ष्मावस्थस्य न तत्रान्तर्भावः इति यद्युच्येत तदा तदप्युपादानत्वात्सूक्ष्मान्तरसापेक्षमिति कथं तत्वपक्षीयत्तेत्याह --यद्वेति-- यदीत्यर्थः । केचित्तु-कथमव्यक्तसिद्धिरिति-शक्तिसिद्धावपि नाव्यक्तसिद्धिरित्यर्थः । ननु शक्तित एव कार्य प्रवर्तते । सा चाव्यक्तमेव । तिलेषु तैलमिव । यथा च तत्सूक्ष्मावस्थं तथाचाव्यक्तसिद्धिरिति शङ्कते—नन्विति । यदिति । तथाच तैलाश्रयतिलवदव्यक्ताश्रयात्मकशक्तयाश्रयोऽप्यङ्गीकार्य इति सिद्धान्तविरोध इत्यर्थः । विषम इति । तिलस्येव शक्तयाधारस्या (त्रा)नभ्युपगमादिति भावः । तर्हि तदुदाहरणं त्यजत इत्याहनोदाहरणमिति । तथापि संप्रतिपन्नावधिरिति । सूक्ष्मभूतमहत्तत्वावधिरित्यर्थः । यद्वा-सूक्ष्मस्यापि सूक्ष्मान्तरसापेक्षत्वात्तत्वेयत्तासिद्धिन स्यादिति दूषणं तदवस्थमेवेत्याह—यद्वति । अपिचेत्यर्थ इत्याहुः । ननु कारणेषु (कारणं) सूक्ष्मं कार्यं शक्तिरिति शरीरे सूक्ष्मशरीरवद्वर्तत इत्यत्राह-एतेनेति यथाहुरिति । सांख्या इति शेषः ।
. . . नियतं महदादिसुक्ष्मपर्यन्तम् संसरति निरुपभोगं भावैराधवासितं लिङ्गम् ।