SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ 134 सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे जडद्रव्य सर्वार्थसिद्धिः तुकत्वक्लाप्तिश्च निरस्ता *'सत्वादीनां भिन्नत्वात् * विकारित्वा* च । अथाभिन्नकारणान्तरक्लृप्तिः; तथा सति स्वाभीष्टतत्वसंख्याविरोधः। सत्वादिद्रव्यभेदाभ्युपगमाच्च । शक्तितः प्रवृत्तेश्चेत्येतदपि मन्दं ; यदि कारणशक्तितः कार्य प्रवर्तते कथमव्यक्तसिद्धिः? आनन्ददायिनी ननु तत्र न बाधः । ईश्वरानुमानवत्कारणान्तरस्य सिद्धरित्यत्राहतथासतीति । त्वन्मते न कल्प्यमानेनैव संख्याविरोधः अपि तु क्लृप्तेनापीत्याह-सत्वादीति । यदपि महदादिकार्य कारणशक्तया प्रवर्तते कार्यत्वाद्धटवदिति शक्तितः प्रवृत्तेश्चेति विवक्षितमनुमानं तदनुवदतिशक्तितःप्रवृत्तश्चेतीति । दूषयति—कथमिति । तत्तत्कार्याणां तत्तकारणशक्तया प्रवृत्तावपि महदादिकार्याणां नैकं कारणमव्यक्तं सिध्य भावप्रकाशः भेदेन भिन्नत्वे सतीत्यर्थः। अभिन्नहेतुकत्वेत्यत्रापि प्रतिसर्गभेदेनेति विवक्षितं । *'सत्वादीनां भिन्नत्वादित्यादि—सदृशविसदृशपरिणामभेदेन सत्वादीनामपि भेदादित्यर्थः । * विकारित्वादिति—परिणामाश्रयत्वादित्यर्थः । ननु–परिणामैक्याद्वस्तुतत्वम्' इति योगसूत्रे (४-१४) वस्त्वैक्यव्यवहारे परिणामैक्यं निदानमिति स्पष्टं । तत्र च तत्ववैशारद्यां वाचस्पतिः- 'बहूनामप्येकः परिणामो दृष्टः ; तद्यथा गवाश्वमहिषमातङ्गानां रुमानिक्षिप्तानां एको लवणत्वजातीयलक्षणः परिणामः । वर्तितैलानां च प्रदीप इति' इत्याह । एवं च प्रतिसर्गावस्थायां सदृशपरिणामाश्रयत्वमेवैकत्वमिति चेत्तत्राह-* चेति ।
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy