________________
सर:]
त्रिगुणपरीक्षायां प्रकृत्यनुमाननिरासः
133
सर्वार्थसिद्धिः ननु 'साम्यावस्थानां सत्वरजस्तमसां संघातः प्रकृतिः; अतः कारणैकत्वं स्यात् ? * तन्न चित्रपटारम्भक शुक्लकृष्णरक्ततन्तुसंघातन्यायेन सूक्ष्मदृष्टौ कार्याणां यथास्वं कारणभेदस्यैवानीकारात्। ततश्च भेदानां * भिन्नत्वे सति विकारत्वादभिनहे
आनन्ददायिनी यथास्वमिति–कार्यस्य सुखाद्यात्मकत्वे सत्वरूपत्वरजोरूपत्वतमोरूपत्वांशभेदेन भिन्नत्वात्तत्तदंशे तत्तत्स्वरूपस्य हेतुत्वात्सर्वं प्रत्यपि नैकमपादानमिति भावः । नन्वेकमृत्पिण्डेन क्रमेणोत्पन्नानां घटशरावादीनां दर्शनात् विमतमेकोपादानकं भिन्नत्वे सति विकारत्वादेकमृत्पिण्डोपादानकघटशरावादिवदित्यनुमानस्य किं दूषणमित्यत आहततश्चेति। सत्वादीनामेव त्वन्मते प्रकृतित्वाबाधो व्यभिचारश्चेति भावः।
भावप्रकाशः पुरुषस्य दर्शनार्थं कैवल्यार्थं तथा प्रधानस्य ।
पङ्गन्धवदुभयोरपि संयोगस्तत्कृतस्सर्गः ॥ इत्यत्र प्रकृतिपुरुषसंयोगस्य भोगापवर्गमहदादिसर्गहेतुत्वोक्त्या महदाद्युत्पत्तेः पूर्वं तथा संयोगोक्तयसंभवादिति भावः ॥
*साम्यावस्थानामिति–प्रतिसर्गावस्थायां सत्वं रजस्तमश्च सदृशपरिणामानि भवन्ति । 'सत्वं सत्वरूपेण' इति वाचस्पत्युक्तरीत्या सदृशपरिणामाश्रयाणामित्यर्थः । एतेन प्रतिसर्गभेदेऽप्यभिन्नत्वमेकत्वं वंशीधरोक्तमपि सूचितम् । संघातस्य प्रत्येकानतिरेकान्मुख्यमेकत्वं न संभवतीति दूषयति *तन्नेत्यादिना । * भिन्नत्वे सतीति-प्रतिसर्ग