________________
सरः]
त्रिगुणपरीक्षायां प्रकृत्यनुमाननिरासः
135
सर्वार्थसिद्धिः
ननु कारणशक्तिर्नाम सत्कार्यपक्षे न कार्यस्याव्यक्तत्वादन्या यथा तिले तैलस्य; अतस्सर्वकार्योपादानाव्यक्तसिद्धिरिति
"
ܪ
आनन्ददायिनी
तीति भावः । ननु सांख्यपक्षे कारणे शक्तिः कार्यमेव; सा चाव्यक्ता - दनन्यैव शक्तिविशिष्टस्यैवाव्यक्तत्वात् । तथा च महतस्तत्कारणाद (स्वज्ञात्र ) भिन्नता । तथाहङ्कारस्यापि महदभिन्नत्वमेवमिन्द्रियादिकार्याणामपि महदभिन्नतया सर्वस्यापि महदुपादानभूतैककारणतया अव्यक्तसिद्धिरिति शङ्कते नन्विति ।
भावप्रकाशः
' सन्ति प्रागप्यवस्थाः इत्यत्र वक्ष्यमाणरीत्या धर्म्यंश इव धर्मांशेऽपि सत्कार्यवादस्य साङ्ख्यैरङ्गीकारेण उभयोर्नित्यतया 'परमार्थ - तस्त्वेक एव परिणामः । धर्मिस्वरूपो हि धर्मो धर्मिविक्रियैवैषा धर्मद्वारा प्रपञ्चयते इति योगभाप्ये धर्धलक्षणावस्थापरिणामानां तत्वत एकत्वाभिधानेन तन्नयायेन परिणामस्य गुणत्रयस्वरूपत्वेन परमार्थतो बहुत्वस्यैव वाच्यत्वेनैकत्वासम्भवात् मृद्घटवत्तन्तुपटवद्वाऽत्र परिणा इति युक्तया निश्चयासम्भवेनैवमप्यप्रयोजकत्वादिति चार्थः ।
,
* न कार्यस्याव्यक्तत्वादन्येति । धर्मधर्मिणोरभेदेनानाभिव्यक्तकार्यमेव शक्तिः; तच्च कारणमेव । अभेदेऽपि भेदव्यवहारो नीलघटयोरिव भेदविवक्षया युज्यते । शक्तिमतः कारणत्वकल्पनापेक्षया शक्तेः कारणत्वे लाघवादरिक्तशक्तिकल्पने मानाभावाच्चेत्ति भावः । अतिरिक्तशक्तिसाधने प्रमाणादिकं ' इत्यादिघोषो विरमति विदिते शब्दतरशक्तितत्वे' इत्यद्रव्यसरे वक्ष्यते इत्याभिप्रेत्य प्रकृते अय