________________
128 सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे जडद्रव्य
सर्वार्थसिद्धिः दृष्टान्तासिद्धिः । अवतिहेतुविवक्षायामपि नदृष्टः कारणभेदो पह्नोतुं शक्यः । नापि कारणान्तरमेकं विधातुं । दृष्टैरेव हेतुभि रदृष्ठघटितैः कार्याणां चरितार्थत्वात् न च शास्त्रमन्तरेण जगत 'अस्सत्वादिगुणसमन्वयस्सिद्धः येन तन्मयं कारण
आनन्ददायिनी जातमेकोपादानकं एकरूपान्वितत्वात् यदेकोपादानकं न भवति तदेकरूपान्वितमपि न भवति । यथात्मानात्मानौ यथा वा शशशृङ्ग कूर्मरोमाणीति तत्राह- अवीतेति–व्यतिरेकीत्यर्थः । किं दृष्टाना मेवोपादानानामैक्यं सध्यते । उत तदतिरिक्तैकोपादानकत्वमिति विकल्प्याचं दूषयति—न दृष्ट इति । तथा च बाध इति भावः । द्वितीयं दूषयति । नापीति। शक्यामति शेषः । तथाचाप्रयोजकत्वमिति भावः। न चेति । तथा च सत्वादि समन्वितकारणस्य तदैक्यस्य च श्रुत्यैव सिद्धत्वात्किमनुमानेनेति भावः । ननु (प्रत्यक्षेण तन्मूलकानुमानेन वा) लिङ्गग्रहणे तदर्थं श्रुत्यनपेक्षणान्नानुमानवैयर्थ्यमिति
भावप्रकाशः '* सत्वादीति-आदिपदेन रजस्तमसोः परिग्रहः । महदादिकार्यस्य त्रिगुणसमन्वयहेतुश्शास्त्रत एव ज्ञेयः। एवं च तत एव प्रकृतिज्ञानं संभवतीति तदर्थमनुमानादरोऽयुक्त इति भावः । अत्र सुखादिसमन्वय इत्यनुक्ता सत्वादि समन्वय इत्युक्तया जगतस्सुखदुःखमोहात्मकत्वं शास्त्रेण न प्रतिपाद्यते इति सूचितं । तथा हि बृहदारण्यके (५-९) "किन्दैवत्योस्यां प्राच्या दिश्यसत्यिादित्यदैवत