SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ त्रिगुणपरीक्षायां प्रकृत्यनुमाननिरासः 129 भावप्रकाशः इति स आदित्यः कस्मिन् प्रतिष्ठित इति चक्षुषीति कस्मिन्नु चक्षुः प्रतिष्ठितमिति रूपेष्विति चक्षुषा हि रूपाणि पश्यति कस्मिन्नु रूपाणि प्रतिष्ठितानाति हृदय इति होवाच यस्माद्धदयेन रूपाणि सर्वो लोको जानाति तस्माद्भुदये ह्येव रूपाणि प्रतिष्ठितानि भवन्ति' इत्यत्र रूपस्य चक्षुर्जन्यज्ञानविषयत्वेन चक्षुषो रूपे प्रतिष्ठितत्वं मनसो बहिरिन्द्रयसहकारितया रूपस्य तदधीनज्ञानविषयतया ज्ञापके हृदये प्रतिष्ठितत्वमुक्तं । तावन्मात्रेण जगतस्सुखदुःखमोहात्मकत्वं न कथञ्चिदपि सिध्यति आनन्दरूपस्य जीवस्य स्वयंप्रकाशतायाश्शास्त्रतस्सिद्धया मनो न सुखात्मकं अस्वयंप्रकाशत्वात् यन्नैवं तन्नैवं यथा चेतन इति व्यतिरेकिणा सुखदुःखादेद्धर्मभूतज्ञानावस्थाविशेषरूपत्वस्वयंप्रकाशत्वादेर्व्यवस्थापयिष्यमाणतया सुखदुःखादिकं मनो भिन्नं स्वयंप्रकाशत्वादित्यन्वयिना चानुमानेन जडस्य मनस एव सुखाद्यात्मकता दूरोत्सारितति का कथा जगतः ? 'वस्त्वेकमेव दुःखाय सुखाय' इति सुखदुःखहेतुत्वं जगतोऽभिधाय ; तस्माद्दुःखात्मकं नास्ति नच किञ्चित्सुखात्मकम् । इति सुखाद्यात्मकत्वनिषेधाच्च । तत्सन्तु चेतस्यथवाऽपि देहे सुखानि दुःखानि च किं ममात्र । इति वंशीधरोदाहृतं मार्कण्डेयवचनं यदि प्रमाणं तदा भावलक्षणसप्तम्याश्रयणेन सुखदुःखयोःचतोदेहप्रयुक्तत्वेनात्मस्वरूपप्रयुक्तत्वाभावपरतया 'निर्वाणमय एवायमात्मा ज्ञानमयोऽमलः । दुःखाज्ञानमला धर्माः प्रकृतस्तेन चात्मनः ॥ इति विष्णुपुराणवचनं यथा वेदार्थसंग्रहे व्यवस्थापितं तथा निर्वाह्यम् । SARVARTHA.
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy