SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ सर:] त्रिगुणपरीक्षायां प्रकृत्यादेरानुमानिकत्वस्य सामान्यतोनिरासः 121 सर्वार्थसिद्धिः Hपाठादेकोपादानत्वप्रसङ्गः। कार्यत्वे सतीति विशेषणेपि मृत्पिण्डद्वयारब्धघटादिभिः गोमयादिनानोपादानवृश्चिकादिभिश्चानैकान्त्यं ब्रह्वारब्धघटादिभिश्च । तेषामपि पक्षीकरणे आनन्ददायिनी व्यक्तं तथा प्रधानम्' . . . . । इति विवक्षितः तथा च महदादेः प्रकृत्या सह त्रैगुण्यादिसमानरूपवत्त्वात्तया नित्यभूतया सहैकोपादानकत्वाभावाव्याभिचार हाव भावः । ननु यत्कार्य येनकार्येण सरूपमिति विवक्षायान्न व्यभिचार इत्यत्राह-- कार्यर्वे सतीति । ननु कार्यरूपेण नानात्वमभेदः कारणात्मना । हेमात्मना यथाऽभेदः कुण्डलाद्यात्मना भिदा ॥ इति तथा च यथा कारणात्मना हेमरूपेणाभेदः । कुण्डलाद्यात्मना भेदः तथा मृत्पिण्डस्वरूपेण भेदेऽपि मृदात्मना कारणतावच्छेदकाकारण वा अभेदोस्तीत्यत्राह-गोमयेति । एकरूपान्वित वृश्चिकापेक्षया उपादानभूतगोमयवृश्चिकयोः परस्परं विरुद्धधर्मसंसृष्टत्वेन कारणात्मना (प्यभेदस्य) प्यैक्यस्य वक्तुमशक्यत्वादिति भावः । न च एकव्यक्तिदृष्टान्तस्तस्या एकमृत्पिण्डोपादानकत्वादित्यत्राह-बहिति । तथाचैकं कार्यमेकोपादानकमिति नियम एव नास्ति दूरे बहूनि कार्या (बहुकार्यद्रव्या) ण्यैकोपादनकानीति नियम इति भावः । ननु सर्वकार्याणामप्यनेनानुमानेनैकोपादानकत्वं साध्यते । (तथा च) पटादीनां नानोपादानकत्वेऽपिक्षित्यादावेककर्तृकत्वसिद्धिरिव न विरुद्धमिति पटादीनां पक्षकोटिनिक्षिप्तत्वान्न- व्यभिचार इत्यत्राहतेषामपीति । तथा च व्याप्यत्वासिद्धिरिति भावः । ननु सर्व कार्य
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy