SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ 118 सव्याख्यसर्वार्थासद्धिसहिततत्वमुक्ताकलापे जडद्रव्य - सर्वार्थसिद्धिः च द्रव्यत्वं नावश्यापेक्षितं । न च स्वप्ने व्याघ्राद्यभिमानादहङ्कारक्लप्तिः। मनसैव तादृशसंस्कारसध्रीचा तदुपपत्तेः । निश्वासादिहेतुभूतप्रयत्नाधारतया महत्क्लप्तिरप्ययुक्ता । अहष्टवशादेव बाह्यस्येव आन्तरस्यापि मरुतस्स्पन्दोपपत्तेः। न चादृष्टस्यापि महत्तत्वाश्रयत्वं इतः पूर्व सिद्धं । यदा च ईश्वर प्रयत्नाधीनत्वं उच्छ्वासादेस्सेत्स्यति । तदा क्षेत्रज्ञस्यापि न आनन्ददायिनी व्या(प्ति)प्तयादिज्ञानस्य(क) ? कारणत्वदर्शनाव्यभिचार इति भावः । वृत्तिभेदान्मनः क्लप्तिं दूषयित्वा तद्भेदादहङ्कारक्लप्तिं दूषयति-न च स्वप्न इति । एवमध्यवसायस्याप्यन्यथा सिद्धया न महत्तत्त्वसिद्धिरिति द्रष्टव्यं । ननु निश्वासादि हेतुप्रयत्नाधारतया महत्सिद्धिरिति (त्युक्तमितिचेत् ) चेत्तत्राह निश्वासादिहेतुभूतेति । नन्वस्तु तादृशादृष्टाधारतया महसिद्धिारीत्यत्राह–नचादृष्टस्यापीति । तथा च व्याप्तयसिद्धिरिति भावः । कैमुतिकन्यायेनापि महतः प्रयत्नानाधारत्वमित्याह—यदेति । भावप्रकाशः कार्यद्रव्यत्वान्निश्चयवृत्तिमद्दव्योपादानकं । इति वंशीधरोक्तानुमानमपि प्रतिक्षिप्तं । अभिमानकार्यद्रव्यत्वस्योपादानद्रव्येऽभिमानवृत्तिसाधनाशक्तत्वात् । कारणगुणात्मकत्वात्कार्यस्येति प्रक्रियानुसारे च महदादावप्यभिमानाङ्गीकारप्रसङ्गात् । अतीन्द्रियेऽर्थेऽभिमानकार्यद्रव्यत्वादिहेतोरनुमानेन साधनासम्भवाच्छुत्यालम्बेतु तस्यैव शरणत्वेनानुमानाप्रसराच्च
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy