SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ सरः] त्रिगुणपरीक्षायां प्रकृत्यनुमाननिरासः 117 सर्वार्थसिद्धिः संकुचन्ती कर्मोत्पन्नैरेव द्वारैः यथाकर्मप्रसरतीति तु त्रय्यन्तवृद्धाः । नापि सङ्कल्पादिभिर्मनः क्तृप्तिः। संस्कारप्रणाळ्यापि तदुपपत्तेः। अन्यथामनसापि तदुत्पादनायोगात्। '* करणस्य आनन्ददायिनी इत्युक्तेरित्यर्थः । आलोच्य–मयेदं कर्तव्यमिति योऽयं चितिसन्निधनादापन्नचैतन्याया बुद्धेनिश्चयः सोऽध्यवसायः । स च बुद्धेर्महतोऽसाधारणधर्मः ; तस्य बुद्धिकार्यत्वात्तदभेदेन निर्देशः । आलोच्यात्राहमधिकृतो मदर्थाएवामी विषयाः अहमस्मीति योऽयमभिमानः साहङ्कारस्यवृत्तिः चक्षुरादिना संमुग्धाकारेण वस्तुग्रहणे इदमित्थमिति । विशेषणविशेष्यभावेन ग्रहणं मनसेति तादृशसम्यक्क(ल्प्य)ल्प्यः सविकल्पाध्यवसायो मनोवृत्तिरिति तदर्थः । कर्मोत्पन्नेरिति । तथा च कर्मोत्पन्नचक्षुरादिभिरन्यथासिद्धयार्थ ? कादाचित्कप्रसरबलान महदादिसिद्धिरिति भावः । संस्कारप्रणाड्येति । संस्कारसहितादात्मन एव वा चक्षुरादितोऽपि वा तदुपपत्तेरित्यर्थः। यद्वा-संस्कारादेवेत्यर्थः । संस्कारस्यावश्यकतामाह-अन्यथेति। ननु संस्कारस्य न सङ्कल्पादिकरणत्वं गुणत्वादित्यत्राह-करणस्य चेति । प्रत्यक्ष प्रतीन्द्रियार्थसन्निकर्षादेरिवानुमि(तौ)त्यादौ भावप्रकाशः * करणस्य चेत्यादि । एतेन तन्मात्रेन्द्रियाणि अभिमानकार्यद्रव्यत्वादभिमानवृत्तिमद्रव्योपादानकानि । अहकारद्रव्यं निश्चय
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy