________________
सर:
त्रिगुणपरीक्षायां प्रकृत्यादेरानुमानिकत्वस्य सामान्यतोनिरासः
101
भावप्रकाशः यत्प्रमाणम् यत्र शक्तं तदुक्तलक्षणेभ्यः प्रमाणेभ्यो निष्कृष्य दर्शयतिसामान्यत इति । तुशब्दः प्रत्यक्षपूर्ववद्भयां विशिनष्टि । सामान्यतो दृष्टादध्यवसायादतीन्द्रियाणां प्रधानपुरुषादीनां प्रतीतिः । चितिछायापत्तिबुद्धेरध्यवसाय इत्यर्थः । उपलक्षणं चैतत् ; शेषवदित्यपि द्रष्टव्यम् । तत् िसर्वेष्वतीन्द्रियेषु सामान्यतो दृष्टमेव प्रवर्तते? तथाचयत्र तन्नास्ति महदाद्यारम्भक्रमे स्वर्गापूर्वदेवतादौ च तत्र तेषामभावः प्राप्त इत्यत आह---तस्मादपीति । तस्मादित्यतावतैव सिद्धे चकारेण शेषवदित्यपि समुच्चितं ' इति । एतव्याख्यायां साङ्ख्यतत्वविभाकरनाम्नयां वंशीधर इत्थमाह- आदिना संयोगसंग्रहः । प्रकृतिपुरुषतत्संयोगा नित्यामेया इत्युक्तेः । जडायाः प्रतीतेर्घटादेरिव प्रमेयव्यवहारहेतुत्वाभावादाह-चितीति । चितिच्छाया—चैतन्यप्रतिबिम्बः तस्यापत्तिर्यत्र चैतन्यप्रातीचम्बाश्रयेत्यर्थः । सा च बुद्धेरन्तःकरणस्याध्यवसायः वृत्तिरूपपरिणामः । अचेतनोऽपि चेतन इव भवतीत्यर्थः । नन्वतीन्द्रियादौ व्यतिरेकिणोऽपि सम्भवात् कथं सामान्यतो दृष्टादेव तत्प्रतीतिरित्यत आह--उपलक्षणमिति । शेषवतः-अवीतस्य व्यतिरेकिण इत्यर्थः । आगमस्य वैफल्यमाशङ्कते-तत्किमिति । तत्रेष्टापत्तिमाशङ्कय निराकरोति - तथाचेति । पदार्थक्रमे अनुमानद्वयं न सम्भवति कार्यलिङ्गेन कारणानुमानात् । तथा च परोक्षे प्रत्यक्षानुमानयोरविषये श्रुतिरेवमानं । स्वर्गबोधकं ‘यन्न दुःखेन' इत्यादि । स्वर्गकामो यजेतेत्याांदे अपूर्व । अपूर्व विना आशुविनाशिनो यागस्य स्वर्गसाधनत्वासम्भवात् । देवतायां 'अग्नीषोमाविदं हविरजुषेता' । ऐन्द्रं दध्यमावास्यायां' इत्यादि । सामान्यतोदृष्टाद्यथा प्रधानादीनां सिद्धिः तथा 'प्रकृतर्महान्' इत्यादौ स्पष्टमाभिधास्यते इत्याह । एवं च स्वच्छदेनागमेनेति मूलमसङ्गतमित्यभिप्रयन् न पुनरनुमयेति मूलमवातरयति--