SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ 102 सव्याख्यसर्वाधीसद्धिसहिततत्वमुक्ताकलापे जडद्रव्य तत्वमुक्ताकलापः न पुनरनुमया व्याप्तिलिङ्गाद्यसिद्धेः । सर्वार्थमिद्धिः '*ननु साङ्खयोक्तैरनुमानैः प्रधानादिसिद्धिस्स्यादित्यत्राह - न पुनरनुमयेति । न त्वनुमानैरित्यर्थः । तत्र हेतुः-व्याप्तिलिङ्गाद्यसिद्धेः । यथासम्भवं व्याप्तिलिङ्गपक्षदृष्टान्तानामसिद्धेरित्यर्थः। तथा हि-यत्तावदुक्तं । कारणगुणात्मकत्वात्कार्यस्याव्यक्तमपि सिद्धमिति । 2*अयमर्थः __ आनन्ददायिनी पन्नं; अनुमाशब्दस्यानुमितिपरत्वेन तज्जन्यप्रतीत्यभावादित्यत्राह --- न पुनरनुमयेति अनुमानैरित्यर्थः इति । अनुमाशब्दः करणपरो जात्येकवचन इति भावः। आदिशब्दार्थमाह-पक्षदृष्टान्तेति । साङ्ख्योक्तं प्रकृत्यनुमानं दूषयितुमनुभाषते—यत्तावदुक्तमिति । काकस्य कार्णोद्धवलः प्रासाद इतिवदसंगतमित्यत्राह-अयमर्थ इति । __ भावप्रकाशः 1 * नन्वित्यादिना । तत्राव्यक्तसाधनार्थप्रवृत्तसाङ्ख्यसप्ततिकारिकार्थमनुवदति - कारणेत्यादिना । तत्र साङ्ख्यतत्वकौमुदीमनुसृत्य कारिकार्थमाह- 2* अयमर्थ इत्यादिना । अत्र ‘महदादिकार्येण सुखदुःखमोहरूपेण स्वकारणगतसुखदुःखमोहात्मना भवितव्यमिति' वाचस्पतिवाक्येन कार्यत्वे सति यद्धर्मवत्त्वं यत्र तत्र कारणगततद्धर्मात्मकत्वमिति व्याप्तिस्सूच्यते । एतच्च अत्र कार्याणां
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy