SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ 100 सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे जडद्रव्य सर्वार्थसिद्धिः कारेण त्रिगुणस्य शास्त्रवेद्यत्वं । एषां च तत्वानां तदवान्तरभेदानां च यथाऽऽगमं यथादर्शनं च लक्षणं ग्राह्यम् । केषुचित् क्षीरगुडादिरसभेदवत् दुर्वचा अपि भेदास्त्वनुभवसिद्धा '* दुरपह्नवाः । आनन्ददायिनी प्रकृत्यादावतिव्याप्तेश्चेत्यत्राह--एषां चेति । अप्रत्यक्षाणामागमबोधितं लक्षणं । तेषु सर्वतत्वकारणत्वं महत्तत्वकारणत्वं च प्रकृतिलक्षणं । प्रकृत्यव्यवधानेन प्रकृतिजन्यत्वं महल्लक्षणं इत्यादिना ग्राह्यम् । पृथिव्यादीनां च प्रत्यक्षतः । नचातिव्याप्तिः; यथादर्शनं यथाऽऽगमं तत्तदवस्थाविशिष्टस्य लक्ष्यतया तत्तदवस्थाशून्यकाले लक्षणविरहादतिव्याप्तयभावादिति भावः । ननु पृथिव्यादीनामनुगतस्य धर्मस्य दुर्वचत्वात् न लक्षणं संभवतीत्यत आह—केषुचिदिति । भेदाः --- भेदकधर्मा इत्यर्थः । ननु प्रत्यक्षेणाप्रतीतेरित्यस्यानुषङ्गेऽनुमयेत्यनुप भावप्रकाशः 1* दुरपह्नवा इति । तदाह दण्डी काव्यादर्श--- इक्षुक्षीरगुडादीनां माधुर्यस्यान्तरं महत् ।। तथाऽपि न तदाख्यातुं सरस्वत्यापि शक्यते ।। इति। साङ्ख्यास्तु यस्यातीन्द्रियस्य साधनेऽनुमानं न प्रभवति तदेवागमतस्सिध्यतीत्याहुः । यथाहेश्वरकृष्णः---- ... सामान्यतस्तु दृष्टादतीन्द्रियाणां प्रतातिरनुमानात् । __तस्मादपि चासिद्धं परोक्षमाप्तागमात्सिद्धम् ॥ इति । तदेतत्साङ्ख्यतत्वकौमुद्यां इत्थं व्याचकार वाचस्पतिः---' तत्र
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy