________________
सरः
त्रिगुणपरीक्षायां प्रकृत्यादेरचाक्षुषत्वम्
99
सर्वार्थसिद्धिः अध्यवसायादयोऽपि वस्तुत अत्मधर्माः। करणभेदायत्ततया तु तत्तद्वृत्तित्वोपचाराः। दृष्टेषु पृथिव्यादिष्वपि शास्त्रैकवेद्याः कतिकति न सन्त्याकाराः? किंपुनरन्येषु? अतो लोकोत्तीर्णा
आनन्ददायिनी प्रतीयमानोऽडकार इति चेत्तत्राह–अध्यवसायादयोऽपीति । तयध्यवसायादेः तद्धर्मत्वे (शास्त्रेषु धर्मितया) तेषु तद्धर्मतया व्यपदेशः कथमित्यत्राह—करणभेदेति । करण(रूप)भूत महदाद्यायत्तत्वादित्यर्थः । ननु पृथिव्याद्यवस्थाविशिष्टस्यैव प्रत्यक्षवेद्यत्वात् कथं पृथिव्यादेश्शास्त्रवेद्यत्वम् ? नच तम्य मास्तु तद्वेद्यत्वमिति वाच्यम् ; तथा सति चतुर्विंशतितत्वानां शास्त्रवेद्यत्ववचनविरो(धः)धात् इत्यत्राह-दृष्टेष्विति । पृथिव्यवस्थाविशिष्टतया प्रत्यक्षत्वेऽपि सलिलादिजन्यत्वब्रह्मपरतन्त्रत्व ब्रह्मकारणकत्वब्रह्मशररित्वाद्यैर्धमॅरेप्रत्यक्षत्वेन शास्त्र वेद्यत्वमावरुद्धम् ।
द्रव्यक्रियागुणादीनां धर्मत्वं स्थापयिष्यते । तेषामैन्द्रियकत्वेऽपि न ताद्रप्येण धर्मता ।
श्रेयस्साधनताप्येषां नित्यं वेदात्प्रतीयते ॥ इति न्यायादिति भावः । दृष्टानामेव पृथिव्यादीनां शास्त्रगम्यत्वे अतीन्द्रियप्रकृत्यादीनां शास्त्रगम्यत्वं किं पुनायसिद्धमित्याह-किं पुनरिति । तथाच इदं सुखदुःखमोहात्मकं कार्यजातं तादृशकारणजन्यमित्यनुमानान्न सिध्यतीति भावः । ननु प्रकृत्यादीनामप्रत्यक्षत्वे तल्लक्षणग्रहणमनुपपन्नं ; प्रत्यक्षदृष्टानां पृथिव्यादीनां तत्तदवान्तरभेदानां च लक्षणमप्यनुपपन्नं ; कार्यकारणयोरभेदेन पृथिव्यादिलक्षण