SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ 98 सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे | [লভ सर्वार्थसिद्धिः हाराश्च लौकिकानां तत्तदधिष्ठानमात्रविषयाः। मनसा जानामीत्युक्तिरपि'*धीविशेषविषया । अहमिति प्रत्यक्षं तु न महत्तत्व- ' विषयं अहङ्कारविषयं वा; प्रत्यगात्मन एवाहमिति भानात् । . आनन्ददायिनी रजसश्चक्षुरगम्यत्वं ; तस्यैव राश्यवस्थस्य चक्षुर्गम्यत्वं दृष्टमित्यर्थः । तथाच यदवस्थाविशिष्टस्य शास्त्रप्रतिपाद्यत्वं तदवस्थस्य न प्रत्यक्षत्वमिति भावः । ननु यत्र प्रत्यक्षमाधिष्ठानं नास्ति तत्र कथमित्यत्राह—मनसेति। संभावनारूपधीविशेषविषय इत्यर्थः । ननु अहमिति महत्तत्वस्य अहङ्कारस्य च प्रत्यक्षत्वात् कथं तयोः शास्त्रवेद्यत्वमित्यत्राह-अहमिति । ननु साङ्ख्यैः अध्यवसायो बुद्धिः' इत्यत्र बुध्यते अध्यवस्यतेऽनेनेति व्युत्पत्त्या महत्तत्वपरिणामतयाऽध्यवसायस्य तन्निष्ठत्वोक्तेरध्यवसायाश्रयतया प्रतीयमानोऽहमर्थो महत्तत्वमेव । तथा 'अभिमानोऽहङ्कारः' इत्यत्र अभिमन्यतेऽनेनेति व्युत्पत्त्या तिरस्कारात्मकबुद्धेर्वाऽहङ्कारधर्मत्वात्तदाश्रयतया भावप्रकाशः असन्निकृष्टवाचा च द्वयमेव जिहासितम् । ताद्रूप्येण परिच्छित्तिस्तद्विपर्ययतोऽपि वा ।। इति । *धीविशेषः--संस्कारजन्यं ज्ञानं । ताद्ध सविकल्पकस्मरणादि । ननु अतीन्द्रियविषयकस्य योगिप्रत्यक्षस्य सिद्धान्तेऽप्यङ्गीकारेण नाध्यक्षणेति मूलमयोग्यामिति चेत् न; योगिप्रत्यक्षस्यागमैकसिद्धस्य सिद्धान्तेऽङ्गीकारेण तत्र श्रुतावेव साधकत्वपर्यवसानस्य 'श्रुत्यालम्बे तु सैव प्रसजति शरणम्' इति (बुद्धिसरे ३६) वक्ष्यमाणत्वेनानुपपत्त्यभावात् ।
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy