SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ सरः त्रिगुणपरीक्षायां प्रकृत्यांदेरचाक्षुषत्वम् 97 तत्वमुक्ताकलापः नाध्यक्षेणाप्रतीतेः सर्वार्थसिद्धिः शब्दाभिप्रायः। ननु प्रत्यक्षसिद्धं पृथिव्यादितत्वं । तच कार्यावस्थं प्रकृतिद्रव्यमेवेति ब्रूथ । तथा सति कारणावस्थमपि तदेवेति कथं तस्याप्रत्यक्षत्वं? अश्रुतागमैः अप्रतिसंहितव्याप्तिभिश्च बालादिभिरपि चक्षुरादिकरणानि व्यवहियन्ते । अतः कथं तेषामागमिकत्वं? तत्राह-नाध्यक्षेणेति । प्रत्यक्षविरुद्धेयं प्रत्यभिज्ञेत्याह-अप्रतीतेरिति । न हि प्रकृत्याद्यवस्थस्य प्रत्यक्षतः प्रतीतिरस्ति । अवस्थाभेदैरेकस्यैव प्रत्यक्षत्वाप्रत्यक्षत्वे बहुलं लोकदृष्टे । चक्षुरादिव्यव... - ......... आनन्ददायिनी रायणस्यानपेक्षत्वात्' इति न्यायादिति भावः । ननु नाध्यक्षणेति मूलमसंगतं अभागिप्रतिषेधापत्तेरित्याशङ्कयावतारयति-नन्विति । नन्विन्द्रियाणामतीन्द्रियत्वात्तद्विषयं शास्त्रमर्थवदित्याह-अश्रुतागमैरिति । अप्रतिसंहितेति । यथा धर्माधर्मविषयकवैदिकव्यवहारात् व्यवहारविषयत्वेन व्यवहर्तव्यविशेषविषयमनुमीयते तद्वदपि न व्यवहार्यमनुमाय व्यवहार इत्यर्थः । ननु प्रत्यक्षसिद्धत्वं भवतु को दोष इत्यत्राह-अतः कथमिति । प्रत्यक्षसिद्धे शास्त्रस्य तात्पर्याभावादिति भावः । ननु पृथिव्यादीनामपि प्रत्यक्षत्वं न स्यात् तदभेदात् इत्यत्राह--अवस्थेति । असंयुक्तावस्यस्य केशस्य दूरे न प्रत्यक्षता । तस्यैव सजातीययुक्तावस्थस्य प्रत्यक्षता । प्रत्येकस्य SARVARTHA......... -
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy