________________
96
सव्याख्यसर्वार्थासद्धिसहिततत्वमुक्ताकलापे
[जडद्रव्य
तत्त्वमुक्ताकलापे स्वच्छन्देनागमेन प्रकृतिमहदहङ्कारमात्राक्षसिद्धिः।
सर्वार्थसिद्धिः बाधाभावे भाक्तत्वायोगात् । अत्यथा सर्वत्र श्रुतहान्यश्रुतकल्पनाप्रसङ्गाच्च । तदेतत्सर्वमभिप्रेत्याह—स्वच्छन्देनेति । *' साधकबाधकप्रमाणाभावे विशिष्टार्थबोधनसामर्थ्य आगमस्य स्वाच्छन्छ । आगम इह श्रुतिस्मृतीतिहासादिः। करणदोषवाधकप्रत्ययविरहादस्मदाद्यतीन्द्रियविषयं शास्त्रमपि प्रत्यक्षवत् श्रद्धेयमेव । अत आगमिकानामपि सद्भावनिश्चय इति सिद्धि
आनन्ददायिनी मत्यत्राह-बाधेति । बाधाभावे निमित्तत्वस्य प्रकृतिशब्दबोध्यत्वादिति भावः । अन्यथेति–तथाच प्रकृतेरिति पञ्चमीश्रुतस्य तस्माद्वति पञ्चमीश्रुतस्य जनिकर्तुरित्यनुशासनसिद्धस्य " तमसि लीयते" इति सप्तम्या च श्रुतस्योपादानत्वस्य हानिरश्रुतस्य निमित्तत्वस्य स्वीकार इत्यर्थः । अन्ये तु-प्रकृतिशब्दस्योपादानपरस्य निमित्तत्वे लक्षणास्वीकार इत्याहुः । यद्वा—बाधकाभावेऽपि भाक्तत्वे सर्वत्र तथा प्रसङ्गेन कोऽपि सिद्धान्तो न सिध्येदित्यर्थः । साधकबाधकेति साधकसत्त्वेऽनुवादप्रसङ्गाद्वाधकसत्त्वे योग्यताविरहादर्थविशेषप्रातपादनाभावादपुरुषार्थतापत्तेविहतं स्वाच्छन्छ। श्रद्धेयमेवेति । 'तत्प्रमाणं बाद
भावप्रकाशः साङ्ख्या अपि प्रकृतिमहदादिकमनुमानत एव साधयन्तः प्रकृतिमहदादिक्रममागमसिद्धमेवाङ्गयकार्युरिति भवतस्तस्य सर्वस्य त्यागो न युक्त इति भावः। * साधकबाधकप्रमाणाभाव इति। उक्तं च मीमांसकैः