SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ सरः] द्रव्यातिरिक्तधर्माक्षेपपारहारः 89 तत्त्वमुक्ताकलापः तद्वदन्येऽपि जल्पाः ॥ १० ॥ सर्वार्थसिद्धिः प्रसङ्गाः। ते कथमुद्धार्या इत्यत्राह-तद्वदन्येपि जल्पा इति । अन्येपि-नित्यसमादिरूपाः शुष्कालापाः । तद्वत्-निरस्तवाक्यैस्तुल्यं वर्तन्ते । उत्थानपरिहारप्रकारभेदेऽपि स्वव्याधातादिदोषाविशेषादित्यर्थः। घटकुडयवदन्यत्वेऽनन्यत्वे तु स्वरूपवत् । न गुणस्य गुणत्वं स्यादित्यसत् खोक्तिबाधतः ॥ दूष्यादन्यदनन्यद्वा दूषणं न तु दूषणम् । गर्दभादिवदन्यत्वेऽनन्यत्वे दूषणीयवत् ॥ आनन्ददायिनी भावः । नित्यसमादिरूपेति-क्वचित्साहचर्यदर्शनमात्रेण व्यापकापादनं नित्यसमः । आदिशब्देनोत्कर्षसमादयो गृह्यन्ते । मतुबन्तता भ्रान्ति वारयति-निरस्तवाक्यैरिति । ननु कथं तुल्यत्वं ? उत्थानस्य परिहारस्य च भिन्नत्वादित्यत्राह-उत्थानेति । व्याघातांशमादाय तुल्यत्वमित्यर्थः । अन्येऽपि जल्पा इत्युक्तांशं दर्शयति—घटकुड्यवदिति । धर्मधर्मिणोभेदोऽभेदो वा ? आये घटकुड्यवद्धर्मधर्मिभावो न स्यात् । द्वितीये स्वरूपवद्धर्मधर्मिभावो न स्यादित्यर्थः । स्वोक्तिबाधत इति--सिद्ध्यसिद्धिरूपव्याघातादित्यन्य । अनुमानेन धर्मधर्मिभावखण्डने अनुमानस्य धर्मधर्मिप्रतिपादकोदाहरणोपनयरूपस्वोक्तिविरोधादित्यर्थ इत्यपरे । जातिरूपतया स्वव्याघातकत्वादित्यप्याहुः । दूषणस्य स्वव्यापकत्वमेव दर्शयति--दूष्यादन्यदिति--दूषणं दूष्यादन्यन्न वा ? उभय
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy