________________
90
सव्याख्यसर्वार्थीसद्धिसहिततत्वमुक्ताकलापे
[जडद्रव्य
सर्वार्थसिद्धिः एवं सम्बद्धत्वासम्बद्धत्व-समानकालत्वासमानकालत्व-युगपद्ग्राह्यत्वायुगपद्ग्राह्यत्वादिविकल्पस्य बाधास्तदुद्धाराश्च विशुद्धबुद्धिभिरवधातव्याः। दृष्येणापि सम्बन्धादिविकल्पदोषसाम्यादिति ॥१०॥
इति द्रव्यातिरिक्तधर्माक्षेपपरिहारः.
आनन्ददायिनी. थाऽपि दूष्यादन्यगर्दभवत् तस्मादनन्यदूष्यवद्वा दूषणं न स्यादित्यर्थः । एवमिति---धर्मिणा रूपादिकं संबद्धमसंबद्धं वा ? सम्बद्धत्वे संयुक्तघटपटयोरिव धर्मधर्मिभावो न स्यात् । असंबद्धत्वे मेरुमन्दरयोरिव धर्मधर्मिभावो न स्यात् । एवं धर्मिणा धर्मस्समानकालोऽसमानकालो वा ? उभयथाऽपि समानकालीनासमानकलीनघटपटयोरिव गुणगुणिभावो न स्यादित्यर्थः । एवं धर्मिणा धर्मो युगपद्गाह्यो न वा ? उभयथाऽपि तादृशघटपटवदगुणत्वप्रसङ्ग इति प्रसङ्गो बोध्यः । एवं प्रमेयमप्रमेयं वा ? जन्यमजन्यं वा ? घटस्तदन्यो वा ? उभयथाऽपि न गुण इति प्रसङ्गाः आदिशब्देन विवक्षिताः। तदुद्धारक्रममाह--दूष्येणापति । दूषणं दृष्येण संबद्धमसंबद्धं वा ? समानकालमसमानकालं वा ? युगपद्ग्राह्यमयुगपद्गाद्यं वा उभयथाऽपि तादृशदूष्यरासभादिवन्न दूषणमित्यादि प्रसङ्गादिति भावः । केचित्तु सम्बद्धत्वेत्याद्येवं व्याचख्युः—विशेषणस्य विशेष्येण सह सम्बद्धत्वे सोऽपि सम्बन्धस्संबद्धो नवा ? आये अनवस्था । द्वितीये
. षण्णामपि पदार्थानामसंघातः प्रसज्यते । इति न्यायेन असंहतरूपता स्यात् । विशेषणस्य विशेष्येण समानका