SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे सर्वार्थसिद्धिः विशिष्टं नास्तीत्यपि विशिष्टमात्थ । तच्च विशिष्ट विषयस्वधी - विरुद्धमिति । सन्त्यन्येऽपि धर्मधर्मिभावभञ्जकाः परेषां 88 . - [ जडद्रव्य आनन्ददायिनी स्वधीवाग्विरोधं दर्शयति – विशिष्टं नास्तीत्यपीति । स्वधीवाग्विहतिमुपपादयति तच्चेति । अनेन वाक्येन विशिष्टाभावविषयिणी विशिष्टबुद्धिर्जायमाना विशिष्टसाधिकेति । तया वाचा धियो विरोध इति भावप्रकाशः वस्तुरूपं सन्निवेशोपाधिधर्मात्मकं । तत्र यन्न भ्राम्यति तदभ्रान्तं । एतच्च लक्षणद्वयं विप्रतिपत्तिनिराकरणार्थं । न त्वनुमाननिवृत्त्यर्थं ; यतः कल्पनापोढग्रहणेनैवानुमानं निवर्तितं । तत्रासत्यभ्रान्तग्रहणे गच्छद्वक्षदर्शनादि प्रत्यक्षं कल्पनापोढत्वात्स्यात् । ततो हि प्रवृत्तेन वृक्षमात्रमाप्यतइति सम्पादकत्वात्सम्यक्ज्ञानं कल्पनापोढत्वाच्च प्रत्यक्षमिति स्यादाशङ्का । तन्निवृत्त्यर्थमभ्रान्तग्रहणं । तद्धि भ्रान्तत्वान्न प्रत्यक्षं । त्रिरूपलिङ्गजत्वाभावान्नानुमानम् । न च प्रमाणान्तरमस्ति । अतो गच्छक्षदर्शनादि मिथ्याज्ञानमित्युक्तं भवति । यदि मिथ्याज्ञानं कथं ततो वृक्षावाप्तिरिति चेत् न ततो वृक्षावाप्तिः । नानादेशगामी हि वृक्षः । तेन परिच्छिन्नः एकदेशनियतश्च वृक्षोऽवाप्यते । ततो यद्देशो गच्छद्वक्षो दृष्टस्तद्देशो नावाप्यते । यद्देशश्वावाप्यते स न दृष्ट इति न तस्मात्कश्चिदर्थोऽवाप्यते ज्ञानान्तरादेव तु वृक्षादिरर्थोऽवाप्यते इत्येवमभ्रान्तग्रहणं विप्रतिपत्तिनिरासार्थं । भ्रान्तं ह्यनुमानं । स्वप्रतिभासेऽनर्थेऽध्यवसायेन प्रवृत्तत्वात्' इति व्याचख्यौ । ; 1
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy