________________
सरः]
द्रव्यातिरिक्तधर्माक्षेपपरिहारः
81
तत्त्वमुक्ताकलापः स्वाधारत्वप्रसङ्गस्तत इह न गुणो नापि धर्मीत्ययुक्तम् ।
सर्वार्थसिद्धिः खाधारीकुर्यात्। किमत्रानिष्टम् ? 'स्वस्य स्वस्मादन्यत्वम् । अभेदे
आनन्ददायिनी आत्माश्रय इत्यसङ्गतं उत्पत्तिज्ञप्तिप्रतिबन्धकत्वाभावादित्याशङ्कय आधाराधेयभावे भेदस्स्यात् तस्य भेदाधीनत्वादिति परिहरति—किमत्रेत्यादिना। ननु प्रमेयत्वे प्रमेयत्वमित्यादावभेदेऽपि दर्शनात्तथाऽत्राप्यस्त्वित्यत्राह--अभेद इति ॥
कथं स्ववृत्तिरिष्टा चेद्यथाऽन्यत्रेति गम्यताम् ।
प्रमाणं कारणं वृत्तौ न भिन्नाभिन्नते यतः ॥ इति न्यायेन प्रमाणसद्भावात्तथाऽङ्गीकारः ; इह तु न तथा; प्रमाणाभावादिति भावः । नन्वेकस्यैव घटस्य भूतलाधेयत्वं रूपाधारत्वं च
भावप्रकाशः इति भावः । * स्वस्य स्वस्मादन्यत्वमिति-तदवच्छिन्ननिरूपिताधेयतायास्तत्राङ्गकिारे स्वस्य स्वधर्मितावच्छेदकत्वप्रसङ्गेन विधेयत्वोद्देश्यत्वाद्यवच्छेदकभेदाद्यभावेन शुक्लादिशब्दाच्छाब्दानुपपत्तिरिति भावः । न चात्र तदुपलाक्षते तस्य वृत्तिरिति संभवति ; अविद्यमानं सत् व्यावर्तकमुपलक्षणमिति परिभाषा । एवं सति धर्मस्याविद्यमानत्वे धर्मिणोऽपि सत्त्वासंभवेन कस्यायं व्यावर्तको भवेत् ? किञ्च धर्मस्योपलक्षणत्वे उक्तरीत्या प्रतत्यिप्रकारत्वेन भवदिष्टासिद्धिरपीति ।
SARVARTHA.