SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ 80 सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे जडद्रव्य सर्वार्थसिद्धिः मात्रं; तावति विशिष्टधीव्यवहारयोरभावात् । * अतस्सम्बन्ध्युभयं विशिष्टशब्दार्थ इति स्यात् । *तथा च स्वविशिष्टे वर्तमानो गुणः स्वविशेष्यमिव खात्मानमपि । भावप्रकाशः दिव्यवहारप्रसङ्गं वारयति '* सम्बन्ध्युभयमिति । एतेन प्रत्येकज्ञानात् समूहालम्बनाच्च विशिष्टज्ञानस्य वैलक्षण्यादिकमुपपादितं भवति। तथाहि - दण्डी पुरुष इति प्रत्यये संयोगेन दण्डसम्बद्धः पुरुषः पुरुषे दण्ड इति प्रत्यये च पुरुषसम्बद्धो दण्डो विषयः। प्रतीतेर्विशिष्टविषयकत्वं च दण्डनिष्ठप्रकारतानिरूपितपुरुषानष्ठविशेष्यतानिरूपकतादिकं । अतो विशिष्टशुद्धयोरभेदेऽपि समूहालम्बनादेकः पुरुष इत्यादितश्च विशिष्टज्ञानस्य वैलक्षण्यं । तन्निबन्धन एव व्यवहारभेदः । नहि विषयवैलक्षण्यादेव प्रतीतिवैलक्षण्यमिति राजाज्ञा ; विशेष्यप्रकारभावादिविषयता वैलक्षण्यादपि तदुपपत्तेः । ज्ञानातिरिक्तश्चार्थो बुद्धिसरे स्थापयिष्यते । विशेषणावच्छिन्नप्रतियोगिताकत्वेन विशेषणविशेष्योभयपर्याप्तप्रतियोगिताकत्वेन वा विशिष्टाभावस्य शुद्धाभावाद्भेद इत्यक्षपादानुयायिग्रन्थेषु व्यक्तं । भावान्तराभाववादे च न दोषलेशोऽपीत्यादिक विषयित्वप्रतियोगित्कादिकं च यथाऽवसरं विवेचयिष्यते । * तथाच स्वविशिष्ट इत्यादि-अत एव वेदप्रामाण्यवादिभिरपि सोऽयं देवदत्त इत्यादौ तत्तेदन्तयोरुपलक्षणत्वमेव न तु विशेषणत्वं । दण्डी कुण्डलीत्यादावपि दण्डकुण्डलोपाहतयोस्तादात्म्यमेव विषयः इत्यभ्युपगतं । तदुक्तं संक्षेपशारीरके अविरुद्धविशेषणद्वयप्रभवत्वेऽपि विशिष्टयोर्द्वयोः । घटते न यदैकता तदा न तरां तद्विपरीतरूपयोः ।
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy