SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे [जडद्रव्यं तत्त्वमुक्ताकलापः तदृत्तिमिमात्रे सर्वार्थसिद्धिः कथमाधाराधेयभावः प्रतिसंबन्धिभेदाभावात् ? * नचात्र भिन्नाभिन्नत्वं दृष्टं *युष्मदिष्टं वा ? एवं *वृत्त्यनुपपत्त्या वा गुणगुणिनोरन्यतरपरिशेषस्स्यात् उभयपरित्यागो वेति परोक्तमयुक्तं । कथमित्यत्राह--तद्वृत्तिर्धर्मिमात्र इति। न वयं तच्छून्ये तद्विशिष्टे वा तस्य वृत्तिं ब्रूमः । अपि तु * वस्तुतस्तद्विशिष्टे आनन्ददायिनी दृष्टमित्यत्राह–प्रतिसम्बन्धीति । यस्य यदपेक्षया आधारत्वं तस्य तदपेक्षया भेद इति भावः । ननु एकस्य गुणगुणिस्वरूपस्य कौमारिलैराधाराधेयभावोऽङ्गीकृत इत्यत्राह-न चात्रेति । तन्मतं प्रमाणविरुद्धमिति भावः । अपसिद्धान्तश्चेत्याह-युष्मदिष्टमिति । वृत्त्यनुपपत्त्या वेति वाकारःपूर्वश्लोकोक्ततर्कापेक्षया। अन्यतरपरिशेषस्स्यदिति वैभा भावप्रकाशः *न चात्रेत्यादि। भिन्नाभिन्नत्वं-तादात्म्यं। एतेन दण्डी कुण्डलीत्यादावपि भवन्मते भेदाभेदानभ्युपगमेन तद्भानासंभवेनाभेदभाने च दण्डकुण्डलयोरभेदप्रसङ्ग इति सूचितं । ' * युष्मदिष्टमिति-एतच्च अद्रव्यसरे स्फुटीभविष्यति । वृत्त्यनुपपत्त्या वेति वाकारश्चार्थे । विशिष्टस्यातिरिक्तत्वानङ्गीकारण अनतिरिक्तत्वे वृत्त्यनुपपत्त्या चेत्यर्थः । तदवच्छिन्ननिरूपिताधेयता न तत्र स्वीक्रियते येनोक्तदोषस्स्यात् किं तु तदधिकरणनिरूपिताधेयतैवेति नानुपपत्तिरित्याह-** वस्तुतस्तद्विशिष्टे इति ॥
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy