SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ सर: द्रव्यसाधनम् 57 सर्वार्थसिद्धिः '* वेद्यहेतुफलाकारैभिन्नरेका समेति धीः । आनन्ददायिनी त्वयाप्येकस्य प्रामाणिकानेकाकारोऽप्यभ्युपगत इत्याह-वेद्येति । एका—बुद्धिः वेद्यस्य घटस्य हेतोश्चक्षुरादेः फलस्य चोपादानादेराकारैः समेतीति—संबध्नातीत्यर्थः; तथाहि बाह्यार्थवादिना त्वयाऽप्ययं घट इति ज्ञानस्य घट एव विषयो नान्यदिति व्यवस्थासिद्धयर्थं वेद्यस्य घटस्याकारो ज्ञानेऽङ्गीकरणीयः । अन्यथा धियो नीलादिरूपत्वे बाह्योऽर्थः किं प्रमाणकः । धियोऽनीलादिरूपत्वे स तस्यानुभवः कथम् ॥ भावप्रकाशः '*वेद्यहेत्वित्यादि--अत्र धीः-निर्विकल्पकज्ञानं । हेतु:-अधिपत्यादिकं । वेद्यः-उत्तरोऽर्थक्षणः । फलं-विकल्पज्ञानं तन्मूला प्रवृत्तिविषयप्रदर्शनरूपा प्राप्तिश्च । उक्तं च न्यायबिन्दुटीकायां'निश्चयेन च तज्ज्ञानं नीलसंवेदनमवस्थाप्यमानं व्यवस्थाप्यं' इति. " यस्मात्प्रत्यक्षबलोत्पन्नेनाध्यवसायेन दृष्टत्वेनार्थोऽध्यवसीयते नोत्प्रेक्षितत्वेन । दर्शनं चार्थसाक्षात्करणाख्यं प्रत्यक्षव्यापारः उत्प्रक्षणं तु विकल्पव्यापारः । तथाहि-परोक्षमर्थ विकल्पयन्त उत्प्रेक्षामहे न तु पश्याम इत्युत्प्रेक्षात्मकं विकल्पव्यापारमनुभवादवस्यन्ति । तस्मात्स्वव्यापार तिरस्कृत्य प्रत्यक्षव्यापारमादर्शयति । यत्रार्थे प्रत्यक्षपूर्वकोऽध्यवसायस्तत्र प्रत्यक्षं केवलमेव प्रमाणं" इति च । अधिपतिसहकार्यालम्बनसमनन्तरप्रत्ययाश्चत्वारो विज्ञानोत्पत्तिहेतवः । तत्र हिनीलाभासस्य हि चित्तस्य नीलादालम्बनप्रत्ययान्नीलाकारता। समनन्तरप्रत्ययात्पूर्वविज्ञानाद्बोधरूपता । चक्षुषोऽधिपतिप्रत्ययाद्रूपग्रहण
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy