________________
56
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[जडद्रव्य
सर्वार्थसिद्धिः
मिथो (नि) दर्शनेन साधने मिथस्संश्रयात् । निदर्शनमात्रेण निश्शेषनिह्नवप्रसङ्गाच्चेति । तथाप्येकमनेकस्वभावमिति व्याहतमिति चेन्न, स्वरूपभेदस्यानभ्युपगमात्। धर्मभेदस्याविरुद्धत्वात् ।
आनन्ददायिनी
सिद्धसूर्यालेोकेऽन्यत्र सिद्धजलत्वारोपात् तथा वीचिकाप्युपपन्ना । नचात्र तन्नयायो वक्तुं शक्यः कापि (धी ) रूपादिभेदस्यानभ्युपगमादिति भावः । ननु नीलादिनिदर्शनेन मरीचिकायाः मिथ्यात्वं साध्यतामित्यत्राह — मिथ इति । निदर्शनमात्रेणेति स्वप्नादिप्रत्ययनिदर्शनमात्रेण स्वलक्षणमात्रस्यापि निह्नवप्रसङ्गादित्यर्थः । ननु रूपवत्त्वस्पर्शवत्त्वयोः प्रतियोगिभेदाद्भेदो वाच्यः ; ताभ्यां च धर्मिण ऐक्येऽपि धर्मिभेदस्स्यादिति शङ्कते ——– तथापीति । स्वरूपस्यैकत्वात्तदभिन्नयो रूपवत्त्वस्पर्शवत्त्वयोर्भेदाभावान्न विरोध इत्याह – नेति । धर्मभेदस्येति नहि मशकमातङ्गभेदवद्रूपस्पर्शादिभेदस्तदाश्रयाभेदविरोधीति भावः ।
भावप्रकाशः
एतावता परमतभङ्गोक्तरीत्या बुद्धोपदिष्टक्षणभङ्गप्रत्यक्षार्थभङ्गबाह्यार्थभङ्गधर्मधर्मिभावभङ्गादिषु क्षणभङ्गधर्मधर्मिभावभङ्गद्वयाङ्गीकर्तुः वैभाषि कस्य मते वस्तुस्थैर्यमित्यादिना क्षणभङ्गनिरासकत्वेन या प्रत्यभिज्ञा प्रमा वक्ष्यते सैव धर्मधर्मिभावभङ्गभञ्जनत्युिपपादितं । संभावितान्यथा सिद्धिशिक्षणं च कृतम् । अथ सिद्धान्ते वैभाषिकाक्षेपं परिहर्तुमनुवदति'* तथापीत्यादिना । वैभाषिकमते वस्तुस्वभावस्य वस्तुनश्चाभेदेन वस्तूनां क्षणिकतया न व्याहतिः । स्थिरद्रव्यवाद सिद्धान्ते च व्याहतिरिति भावः ।
1