SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ 58 सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे सर्वार्थसिद्धिः '* तथा बाह्योऽपि [ जडद्रव्य आनन्ददायिनी इति स्वदुक्तेरयोगात् । अनीलादिरूपत्वे इत्युत्तरत्र छेदः । तथा चाक्षुषमेवेदं ज्ञानं इति व्यवस्थासिद्ध्यर्थं हेत्वाकारोऽप्यपेक्ष्यः । एवं फलाकारोऽप्यूह्यः । बह्येोऽपि — घटपटादिरपीत्यर्थः । भावप्रकाशः प्रतिनियमः । आलोकात्सहकारिप्रत्ययात् स्पष्टार्थता । तत्र ज्ञानजन्मनि समनन्तरप्रत्ययो विज्ञानमुपादानकारणं । आलम्बनप्रत्ययो ऽर्थः सहकारिकारणम् । अर्थजन्मनि सोऽर्थ उपादानकारणं । तज्ज्ञानं सहकारिकारणं । ज्ञानार्थयोस्स्वभावत एव विषयविषयिभावः । जन्यजनकभावोऽपि स्वभावात्मक एव । स च सम्बन्ध्यनतिरिक्त इति तन्मतम् ॥ 1 * तथा बाह्योऽपीति — भिन्नस्समेतीत्यनुषङ्गेणान्वयः । भिन्नैः रूपस्पर्शादिभिः ज्ञानस्यार्थेन अधिपत्यादिना च स्वभावाख्यसम्बन्धवत् धर्मस्य धर्मिणापि स्वभावाख्यसम्बन्धाङ्गीकारेऽपि ज्ञानस्यार्थाधिपत्यादि - भिरिव धर्मधर्मिणोरप्यत्यन्तभेदो दुस्त्यज एवेति भावः । तदाह वाच - स्पतिः सविकल्पकप्रत्यक्षत्वसमर्थने तात्पर्यटीकायाम् — ' अपि च रूपविज्ञानं विषयग्रहणधर्मं नानापरमाणुविषयं न परमाणुस्वभावः । तत्स्वभावत्वे वा तेषां सर्वान् प्रत्यविशेषात् सर्वैरेव ते परमाणवो विदितास्स्युः । नचासंबद्धा एव स्वज्ञानेन रूपपरमाणवो विषयास्तस्येति वाच्यम् ; असंबद्धस्य विषयत्वेऽतिप्रसङ्गात् । स्वभाव एवार्थज्ञानयोः सम्बन्धो यदर्थो विषयो ज्ञानं च विषयति चेत् ; हन्त उपाध्युपाधिमतोरपि स्वभाव एव सम्बन्धोऽस्तु तथापि विज्ञानार्थवत् न 1
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy