SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ सर: द्रव्यसाधनम् सर्वार्थसिद्धिः दिभिरप्युक्तम् आविर्भावतिरोभावधर्मकेष्वनुयायि यत् ।। तद्धर्मि ; यत्र वा ज्ञानं प्राग्धर्मग्रहणाद्भवेत् ॥ इति । * अत्रागृहीताशेषधर्मधर्मिग्रहणं तु न मृष्यामहे । यत्तु बौद्धैरुक्तं __ आनन्ददायिनी भास्करादिभिः । आविर्भावधर्मः-धर्मिग्रहणनियतग्रहणो धर्मः इदन्त्वादिः । तिरोधानधर्मः-धर्मिग्रहणसमये कदाचित् तिरोधानाधर्मः शुक्तित्वादिः । तत्रानुगतं धर्मीत्यर्थः । प्रकारान्तरमाह-योति । यत्र वा वस्तुनि धर्मग्रहणात्पूर्वं ज्ञानं भवेत् तद्धर्मीत्यर्थः । शुद्धनिर्वेिकल्पकानङ्गीकारात् स्वानभिमतांशमाह --अत्रागृहीतेति-अगृहीताशेषधर्मस्य धर्मिणो ग्रहणमित्यर्थः । धर्मधर्मिभेदे परोक्तं बाधकं शङ्कते--- यत्तु बौद्धेरुक्तमिति । धर्मोपकारेति सिद्धिटीकायामिदमित्थं व्याख्यातंधर्माणां न केवलं धर्मिमात्रमङ्गीकार्य; अपितु धर्मान्प्रति उपकारः तच्छक्तिश्च । न हि तदनुपकारिणस्तद्वत्वं संभवतीति माभूद्दश मासानपि धृत्वा प्रसूतापि वन्ध्या पुत्रिणी। नचाशक्त उपकारको नाम ; अतिप्रसङ्गात् । नहि नद्यश्शतं सम्भूयापि पचेरन् ; तस्माद्धमिणमङ्गीकुर्वता तस्मिन् धर्मोपकारः तदङ्गभूता शक्तिश्चेति पदार्थद्वयमङ्गीकरणीयं । अस्तु ; सम्पदेव सम्पदोऽनुबध्नातीति चेत् ; नायं भावप्रकाशः '*अगृहीताशेषेत्यादि-निर्विकल्पकसौषुप्तिकार्थप्रतिसन्धानासम्प्रज्ञातसमाधीनां धर्मविशिष्टविषयकत्वं व्यवस्थापयिष्यते इति भावः ।
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy