________________
46
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
सर्वार्थसिद्धिः
अधिष्ठानस्य कात्स्नर्येन भानेऽभाने च न भ्रमः | भाताभाताकृतिभिदा कथं निर्धर्मके भवेत् ॥
[ जडद्रव्य
बाधकधीश्च अधिष्ठानातिरिक्ततदसाधारणधर्मविषया; तत्स्वरूपग्रहस्यारोपासहत्वात्। जिज्ञासा च नात्यन्तानुपलब्धे ; अदर्शनात् । न च निश्शेषविदिते; वेद्याभावात् । अतस्तद्विषये विदिताविताकारत्वं सिद्धं । तदिदं सर्वमभिप्रेत्य भिन्नाभिन्नवा
आनन्ददायिनी
1
कारणासंभवान्न संभवत इत्याह- अधिष्ठानस्य कात्स्वर्येनेति । निर्धर्मकत्वपक्षे अधिष्ठानज्ञानमस्ति न वा ? अस्ति चेत् कात्स्वर्येन तद्रूपविशेषदर्शनादज्ञाताकाराभावान्न भ्रमः । तदभावे सामान्येनापि तज्ज्ञानाभावान्न भ्रम इत्यर्थः । ननु निर्धर्मकत्वेऽपि भाताभाताकारोऽस्तु इत्यत्राह-भाताभातेति । अयं भावः - एकस्य वस्तुनो न स्वरूपेण भाताभातत्वसंभवः विरोधात् ; अपि तु किञ्चिद्धर्मविशिष्टतया ज्ञातत्वं किंचिद्धर्मविशित्वेनाज्ञातत्वं वाच्यं तच्च निधर्मकस्य न संभवतीत्यर्थः । बाधकप्रत्ययबलादपि धर्मसिद्धिरित्याह- वाधकधश्चेिति । ननु धर्मस्वरूपज्ञानमेव बाधकमस्तु न तावता धर्मधर्मिभाव आवश्यकः इत्यत्राह-स्वरूपग्रहस्येति । तथाच क्वचिदप्यारोपो न स्यादिति भावः । जिज्ञासाबलाच्च धर्मधर्मिभावसिद्धिरित्याह- जिज्ञासा चेति । इदं च निर्वि शेषजिज्ञासाखण्डनसमये शतदूषण्यां प्रपश्चितमाचार्यैः; तत्रानुसन्धेयम् । विदिताविदिताकारवत्त्वमिति आकारो - धर्मः । भिन्नाभिन्नवादिभिः