________________
द्रव्यसाधनम्
सर्वार्थसिहिः तस्य परमार्थस्य त्वयाऽनभ्युपगमात् । दूरे च परिमाणान्तरवत्तया वस्तुनः स्फुरणात् । अत एव नैकत्वसंख्या; दूरासन्नयोरेकानेकत्वबोधे तदेवेति दर्शनात् । अत्र उत्तरेण.
* आदिशब्देन संशयविपर्यय (धि) योग्रहणं । 'संशयविपर्ययौ तावत् अधिष्ठानग्रहे विशेषाग्रहात् समानधर्मग्रहाच्च भवतः । तथादृष्टिनियमश्च नान्यथयितुं शक्यः ।
___ आनन्ददायिनी काल्पनिकं परिमाणमस्त्वित्यत्राह-दूरे चेति । तथाच दूरान्तिकयोभिनपरिमाणस्फुरणान्न प्रतिज्ञानिर्वाह इति भावः । उक्तन्यायेन संख्याया अभावात् ; काल्पनिकत्वेऽपि दूरासन्नयोः भिन्नसंख्यास्फुरणान्न तामादायापि निर्वाह इत्याशङ्कयाह-अत एवेति ननु संशयानुरोधा कथं धर्मिसिद्धिरित्यत्राह-संशयविपर्ययौ तावदिति । किश्चिदाकारे. णाधिष्ठानज्ञानं किञ्चिदाकारविशिष्टतया च तदज्ञानं तस्मिन् सादृश्यज्ञानं च तत्कारणं । तौ तद्धर्म्यभावे न संभवत इत्यर्थः । तेषां कारणत्वे नियामकमाह-तथा दृष्टि नियमश्चेति-अन्वयव्यतिरेकदर्शनादित्यर्थः । ननु स्तो निधर्मकत्वेऽपि संशयविपर्ययावित्याशङ्कय
भावप्रकाशः संग्रहस्य दुष्पारहरत्वाच्च । अवधारणं विशदग्रहणं संशयोऽविशदग्रहणं एककोटिकसंशयोऽप्युपगम्यते. इत्युक्तावपि न निस्तार इति भावेन दूरतादेरिति मूले आदिपदमिति सूचयन् विवृणोति ' * आदिशब्देन संशयविपर्ययधियोर्ग्रहणमिति । * संशयविपर्ययौ तावदितिएतद्विस्तरश्चान्यत्र द्रष्टव्यः ।