SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ 42 सव्याख्यसर्वार्थसिद्धिसार्हततत्वमुक्ताकलापे सर्वार्थसिद्धिः इति । तदिह प्रतिसन्धेयं । आनन्ददायिनी [जडद्रव्य भ्रान्तयः । सर्वेषामपि स्वाज्ञाताकारस्य पदार्थेषु संभवात् । यदातु काष्ठां प्राप्नोति तदा तस्मिन् पदार्थे तेनाज्ञाताकाराभावात् आकाराज्ञानहेतुकभ्रमासंभवः इति । तत्र पदार्थाभ्यासो हि बुद्धयत्क र्षहेतुर्भवति । अभ्यासेन जायमानोत्कर्षपरम्परा काष्ठां गच्छन्ती दृष्टा । यथा पुटपाकोत्कर्षेण जायमाना स्वर्णोत्कर्षपरम्परा दशवर्णे । पदार्थाभ्यासोऽभ्यासत्वात्काष्ठा प्राप्तिहेतुः इति । ननु लङ्घनाभ्यासेऽप्यभ्यासत्वं वर्तते ; न स काष्ठाप्राप्तिहेतुर्भवतीति, मैवं; तत्रोत्कर्षं जनयन् लङ्घनाभ्यासः पूर्वपूर्वप्रयत्नाधिकप्रयत्नापेक्ष एवोत्कर्षं जनयति । तथाच त्रैलोक्यलङ्घनहेतुभूत प्रयत्नस्यासंभवात्तत्रोत्कर्षकाष्ठाप्राप्तिर्नास्ति । अयं चाभ्यासोऽधिकप्रयत्नापेक्ष एवोत्कर्षहेतुः पुटपाकाभ्यासवत् । तस्मादुत्कर्षकाष्ठा प्राप्तिहेतुर्भवतीति । एतदेवाभिप्रेत्योक्तं - अयलवत्त्वेऽपि बुद्धेः इति । पूर्वप्रयत्नाधिकप्रयत्नसापेक्षेणाभ्यासेन जायमानतया उत्कर्षकाष्ठां प्राप्तायाः अत एव यथार्थविषयाया बुद्धेः तत्पक्षपाततो बाधकत्वमुपपद्यते इति । अस्मिन् पक्षद्वयेऽपि धर्मस्वरूपस्य धर्मस्य चाङ्गीकाराद्विरोध इति भावः । अत्र बुद्धेस्सत्पक्षपाततः तत्पक्षपातत इति पाठद्वयं बोध्यं । केचिदेवं व्याचख्युः –— निष्कलङ्क प्रत्यक्षसिद्धस्य युक्तिभिर्न बाधइति त्वयाङ्गीकारात् तन्नयायो धर्मविशिष्टधर्मिण्यप्यस्त्वित्यत्राह - यत्तदन्यत्रेति । उपप्लवो- - बाधः । प्रत्यक्षबाधाभावादनुपप्लवभूतः स चासावर्थश्च तथोक्तः स्वभाव : --- स्वरूपं । विपर्ययैः- यौक्तिकबाधैः प्रत्यक्षबुद्धेरबाधितार्थविषयकत्वस्यौत्सर्गिकत्वादित्यर्थ इति । तदिति - एकस्मिन् धार्मीण भ्रान्त्यभ्रान्त्यनुगत प्रामाणिकधर्माङ्गीकारेण ह्ययं बाध्यबाधकभावसमर्थनार्थो वा काष्ठाप्राप्तिसमर्थनार्थो वा ग्रन्थ आरब्ध इति न विस्मर्तव्यमित्यर्थः ।
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy