________________
सरः
द्रव्यसाधनम्
सर्वार्थसिद्धिः अनुपप्लवभूतार्थस्वभावस्य विपर्ययः । न बाधो यत्नवत्त्वेऽपि बुद्धेम्स(स्त)त्पक्षपाततः ॥
आनन्ददायिनी कव्यापारं कुर्वाणो हि लोके बाधक इत्युच्यते : नहि सत्यस्य शुक्तयादेमिथ्यारजतत्वादिकं प्रति व्यापारोऽस्ति ; अव्याप्रियमाणस्यापि बाधकत्वेऽतिप्रसङ्गो विपरिवर्तश्च स्यात् । तस्मात्कथं बाध्यबाधकभावव्यवस्थेति ? उच्यते---अनुपप्लवेति-उपप्लवभूतोऽर्थस्वभावो रजतत्वं ; अनुपप्लवभूतोऽर्थस्वभावोऽनारोपितश्शुक्तित्वादिः । तस्य विपर्ययैः-- उपप्लवभूतैः रजतत्वादिभिः न बाधः ; किंत्वयत्नवत्त्वेऽपि---बाध्यरजतत्वविषयव्यापाररहितत्वेअप शुक्तित्वादिरेव बाधः ; कुतः? बुद्धेस्सत्पक्षपाततः--भूतार्थपक्षपातित्वात् । अयं भावः---भूतार्थपक्षपातो हि बुद्धीनां स्वभावः । तावदेवेयमनवस्थिता ; तावदेवेयं भ्रान्तिः । यावत्तत्वं न प्रतिलभते ; तत्प्रतिलाभे तु तत्र स्थितपदा सती अप्रामाणिकं रजतत्वं न संस्पृशेत् ; बुद्धस्ततो निवृत्तिरेव तद्विषयव्यापारमकुर्वतोऽपि बाधकत्वं नाम । यथा हि वेश्यया परिगृह्यमाणः कुरूपो दरिद्रो वा तद्विषयव्यापारमकुर्वताऽपि सुरूपेणाब्वेन वा बाध्यते ; बाधकत्वं चाढ्यस्य सुरूपस्य दरिद्रात्कुरूपाद्वा वेश्याया निवृत्तिरेव तथैतदपीति । अन्ये तु--सर्वेपि पुरुषास्सर्वेष्वपि पदार्थेषु संभावितभ्रान्तयः आहोस्वित् कस्मिंश्चित्पदार्थे कश्चिदस भावितश्रान्तिरपि भवतीति ? तदर्थं विचारितं ; कस्मिश्चित्पदार्थ कांश्चिदाकारान् कश्चिद्गृह्णाति । अपरस्तु ततोऽप्यधिकान् । ततोऽन्यस्ततोऽप्यधिकान् । तत्र पूर्वस्या बुद्धरुत्तरोत्तरमुत्कृष्यते । इयं चोत्कर्षपरम्परा कस्मिंश्चित्पुरुष समाप्यते आहोस्विदप्रतिष्ठां गच्छतीति ? यदा तु काष्ठां न प्राप्नोति तदा सर्वेऽपि संभावित