SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ सर:] द्रव्यसाधनम् तत्वमुक्ताकलापः न्यत् । '*एकस्मिन् दूरतादेरविशदविशदप्रत्यभिज्ञादि तद्वत् सर्वार्थसिद्धिः बुद्धयन्तराणि च तद्धाधकानि 1* अभिन्नेन्द्रियजन्यान्याहएकस्मिन् इति–आसन्नदेशे दृष्ट्वा दूरं गतस्य अविशदा प्रत्यभिज्ञा । दूरे दृष्टा समीपं गतस्य तु विशदा। एवं क्रमादहलविरलालोकादिवशादप्युभयथा ग्राह्या । अल्पधर्मविशिष्टतया ग्रहणं अविशदग्रहणं । भूयोधमविशिष्टतया तु आनन्ददायिनी बुद्ध्यन्तराणीति—यद्यपि दृष्टमेव स्पृशामीति पूर्वोक्तापि प्रत्यभिज्ञा एकेन्द्रियजन्यैव चक्षुर्मात्रजन्यत्वात् ; तथाऽपि सा इन्द्रियद्वयसापेक्षेति भावः। अभिन्नेन्द्रियजन्यानि-भिन्नेन्द्रियानपेक्षाणि ॥ ननु विशदाविशदज्ञानं कथं धर्मिसाधकमित्यत्राह-अल्पधर्मविशिष्टतयेति तथाच एकस्यैव वस्तुनो भूयोऽल्पधर्मविशिष्टतया ग्रहणमेव प्रतीतेर्विशदाविशदत्वमिति __ भावप्रकाशः 1 * अभिन्नेन्द्रियजन्यानीति—पूर्वज्ञानजनकेन्द्रियाभिन्नेन्द्रियजन्यानीत्यर्थः । एतावता पूर्वज्ञानजनकेन्द्रियजन्यं ज्ञानं धर्मभिन्नधमिसाधने प्रमाणमिति सिद्धं । अथ यस्यार्थस्य सन्निधानासान्निधानाभ्यां ज्ञानप्रतिभासभेदः तत् स्वलक्षणं तदेव परमार्थसत् अर्थक्रियासामर्थ्यलक्षणत्वाद्वस्तुनः' इति धर्मकीर्तिना न्यायबिन्दी स्वलक्षणविषये यदुक्तं तदेव धर्मिभिन्नधर्मपारमार्थ्यानङ्गीकारे न घटते इत्याह-मूले * एकस्मिन् दूरतादरित्यादि ।
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy