SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ सरः] द्रव्यसाधनम् 37 सर्वार्थसिद्धिः एकस्यानेकस्वभावत्वायोगात् । तदभ्युपगमे जैनमतावतारात् । अनेकधर्मत्वे त्वस्मन्मतसिद्धेः। एकस्मिन्नेव रूपादिस्वभावभेदकल्पनेति चेन्न; सर्वत्रासिद्धस्य कल्पनायोगात् । क्वचिसिद्धी द्रव्यवादसिद्धेश्च । एतेन भेदोपलम्भाभावादभेदसिद्विरिति प्रत्युक्तं । विपरिवर्तस्यैव सुवचत्वात् । आनन्ददायिनी यान्वयव्यवस्थासंभवात् । अतो द्वित्रिचतुरित्यत्र न समासान्तप्रसङ्गः । तदुक्तं तत्वमात्रपञ्चिकायां--- वाय्वादिव्यवहरो भवति म्पर्शादिलक्षणैरेव । द्वित्रिस्वभावभाग्भिः एकस्माद्भस्वतादीव ॥ इति । अत्र मते धर्माणामेव तथाव्यवहारसाधनत्वं ; धन्येवेति पक्षे तु न वस्तुनानास्वभावत्वं ; किन्तु ग्राहकभेदेन तथा व्यवहार इति भेदः ॥ स्वभावभेदा इत्यत्र स्वश्चासौ भावश्चेति स्वभावः---स्वरूपमित्यर्थः ; उताहो म्वस्य भावः स्वभावः इति षष्ठीसमासः इति विकल्प मनसि निधाय प्रथमं दूषयात—एकस्येति । चतुष्टे हि वस्तुस्वभावानां परस्पराभेदे चतुष्वव्याघातः भेदेऽत्वेकत्वव्याघात इति भावः । द्वितीयं दूषयति-अनेकेति । अगत्या धर्मिपक्षमवलम्बते-एकस्मिन्नेवेति । सर्वत्रासिद्धस्यति --वचित्सिद्धस्यैवारोपादिति भावः । ननु प्रत्येकं सिद्धानामेकास्मिन्नारोपे को विरोध इति चेत् ; न ; एकैकात्मकत्वेन सिद्धानां भेदाद्विरोधग्रहेणारोपासंभवादविरोधार्थ क्वचित्समावेशे वक्तव्ये तदसिद्धिरिति भावः । ननु रूपरूपिणोः भेदग्राहकप्रमाणाभावादभेदसिद्धौ रूपादीनामाश्रयासिद्धिरित्यत आह—एतेनेति-प्रत्यभिज्ञानुपपत्तिरूपस्य पूर्वोक्तसाधकस्य सत्त्वेनेत्यर्थः । दूषणान्तरमाह-विपरिवर्तस्येति । अभेदानुपलम्भेन भेदस्यैव सिद्धेरित्यर्थः । अभेदानुपलम्भमेव दर्श
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy