________________
36
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
जडद्रव्य
सर्वार्थसिद्धिः ननु'* निर्विषयैवेयं प्रत्यभिज्ञा वासनावशात्स्यादिति चेन्नः योगाचारनीत्या रूपादेरपि निह्नवप्रसङ्गात् । बाधाबाधाभ्यां विशेष इति चेन्न; स्वारासकबाधादृष्टेः यौक्तिकबाधस्य समत्वाच्च । अतो रूपस्पर्शवदिदमिति मिथो भिन्नविशेषणकं विशेष्यं सर्वलोकसिद्धं दुरपह्नवं । यतु मतान्तरं-स्पर्शमात्रस्वरूपो वायुस्वलक्षणः । तैजसादयस्तु द्वित्रिचतुस्स्वभावाः । अतस्तेजःप्रभृतीनां द्वीन्द्रियग्राह्यत्वमिति ; तदप्यसत् ।
आनन्ददायिनी. प्रत्यभिज्ञाया निर्विषयत्वे प्रत्ययमात्रस्याविशेषानिर्विषयत्वप्रसङ्गेन रूपादिस्वलक्षणस्याप्यपह्नवस्स्यादित्याह-योगाचारनीत्येति । समत्वादितिग्राह्यग्राहकभावानुपपत्त्यादिबाधकस्य तेनापि प्रतिपादनादिति भावः । संघातादेरयोगादित्यत्रादिशब्दसंगृहीतं मतान्तरं शङ्कते-यत्तु मतान्तरमिति । द्वित्रिचतुम्स्वभावा इति द्वन्द्वगर्भो बहुव्रीहिः । न च सर्वत्र सर्वान्वयः ; देवदत्तयज्ञदत्तविष्णुमित्राः रक्तशुक्लकृष्णाः इतिवद्योग्यत
भावप्रकाशः रहेण वृक्षशिंशपयोरिव तादात्म्यविरहेण स्वभावासंभवाच्चाविनाभावग्रहासंभव इति भावः ।
1* निर्विषयैवेत्यादि-विषयाजन्येत्यर्थः । एवं च इदं रजतमित्यादरिव अर्थजन्यत्वरूपप्रमात्वविरहेणास्य साधकत्वं न संभवतीति भावः । रूपादिप्रत्ययस्यापि योगाचारनीत्या निर्विषयत्वं प्रसञ्जयति--2 * यौक्तिकबाधस्य समत्वादिति-धर्मधर्मिणोस्सम्बन्धानुपपत्त्यादिवत् ज्ञानार्थयोस्सम्बन्धानुपपत्त्यादिबाधकस्य सत्त्वादित्यर्थः ॥