________________
सरः ]
द्रव्यसाधनम्
सर्वार्थसिद्धिः
कोपादानत्वे तु तदेव द्रव्यं । पृथिव्यादिदेशक्यात्संघातत्वे तु तत्संघातस्यापि संघातान्तरापेक्षायां अनवस्था अन्योन्याश्र - यो वा । अथ स्यात् गृहीतेन रूपेण पूर्वमेव स्पर्शोनुमितः तत्र दृष्टरूपानुमितमेव स्पृशामीत्येव प्रतिसन्धानमिति चेन्न द्वयोरेकाश्रयत्वग्रहणमन्तरेण '* व्याप्तिग्रहणासंभवेनानुमानासिद्धेः, दृष्टे रूपे स्पृष्टे च स्पर्शे भेदाग्रहात् दृष्टमेव स्पृशामीति बुद्धिशब्दाविति चेन्न; भेदेनैव तयोर्गृह्यमाणत्वात् रसादिष्वपि प्रसङ्गाच्च ।
आनन्ददायिनी
तरोत्तररूपस्पर्शयोरिति भावः । तत्संघातस्येति भवत्पक्षे तस्यापि (रूपादि) क्षणत्वेन नानात्वात् तदैक्यं च संघातत्वेन वक्तव्यं तस्यापि संघातरूपत्वेन संघातरूपदेशापेक्षायां अनवस्था । तथाच— पृथिव्याद्येकदेशसंघातप्रयोजको दुर्लभ इति भावः । अन्योन्येतिपृथिवीशब्दवाच्यरूपरससंघातस्य एतत्संघातावच्छेदेन संघातत्वाङ्गीकारे इति भावः । ननु गन्धानुमिते द्रव्ये घ्रातमेव पश्यामीतिवद्दष्टरूपानुमितस्पर्शे दृष्टमेव स्पृशामीति प्रत्यभिज्ञेत्याशङ्कय उभयाश्रयस्यैकस्य त्वयाऽनङ्गीकारेण साहचर्यगर्भव्याप्तिग्रहा संभवान्नानुमानप्रवृत्तिरिति परिहरतिअथेति । भेदग्रहेऽपि भ्रमरूपप्रत्यभिज्ञाङ्गीकारे बाधकमाह - रसादिष्वपीति ।
1
भावप्रकाशः
1 * व्याप्तिग्रहणासंभवेनेति
कार्यकारणभावाद्वा स्वभावाद्वा नियामकात् । अविनाभावनियमः
इति वदतां भवतां मतेऽपि रूपरसयोर्धूमामयोरिव कार्यकारणभावविर
3*
•
·
35
0